Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 213
________________ १९२ नित्योत्सवः . अङ्गन्यासः तेजोरूपदेवीमयं भावयन्नात्मानं मुहुरावृत्तेन सौः नमः इति नमोऽन्तेन मूलेन शिरोमुखहृन्मूलाधारेषु न्यासं विधाय, सर्वाङ्गे च व्यापकं कृत्वा, सौः स् हृदयाय नमः, सौः औ शिरसे स्वाहा, सौः : शिखायै वषट् , सौः स् कवचाय हुम् , सौः औ नेत्रत्रयाय वौषट् , सौः : अस्त्राय फट् , इति मूलमन्त्रावयवैद्विरावृत्तैः वर्णषडङ्ग, सर्वेण मूलेन षड्वारमावृत्तेन मन्त्रषडङ्गं च कुर्यात् । इह मूलमन्त्रस्य तृतीयोऽवयवः केवलो विसर्गों न त्वकारविशिष्ट इति च ज्ञेयम् ॥ चिदनौ सर्वतत्त्वविलापनम् ___ अथ काकचञ्चूपुटाकृतिना मुखेन बाह्यमनिलमन्तराकृष्य संस्तभ्य, मूलं सप्तविंशतिवारमावर्त्य, वक्ष्यमाणक्षित्यादिशिवान्तषट्त्रिंशत्त्वत्त्वात्मकं वेद्यं नाभौ मुद्रितं विभाव्य, पुनः प्रोक्तवारं मूलं जप्त्वा, नम इति शिखाबन्धोत्तरं पुनः पूर्ववत् अनिलमापूर्य, तेन सर्वकारणचिद्रूपममिमुद्दीप्य, तत्र प्राङ्मुद्रितस्य वेद्यस्य विलयनं भावयित्वा ॥ अर्घ्यशोधनम् श्रीक्रमोक्तेन क्रमेण सामान्यविशेषाये आसादयेत् । अत्र चोभयोरप्यर्थ्ययोः प्रवेशरीत्या अन्तरन्तश्चतुरश्रादिबिन्द्वन्तमण्डलकरणम् , अं आत्मतत्त्वाय आधारशक्त्यै वौषडित्याधारस्थापनम् , उं विद्यातत्त्वाय पद्मासनाय वौषडिति पात्रनिधानम् , मं शिवतत्त्वाय सोममण्डलाय नम इति शुद्धसलिलापूरणम् । ब्रह्माण्डखण्डसम्भूतमशेषरससंभृतम् । आपूरितं महापात्रे पीयूषं अर्ध्यमावह ॥ इति क्षीरपूरणम् , हृदयशक्तिश्रीपादुकां पूजयामीत्याद्यस्त्रान्तं प्रागुक्तषडङ्गद्वयम् , मूलेन दशधा अभिमन्त्रणम् , चतुर्नवतिमन्त्राभिमन्त्रणाभावश्च विशेषः । ततो विशेषार्थ्यबिन्दुभिः सम्प्रोक्ष्य वरिवस्यावस्तूनि ॥

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247