________________
१९२
नित्योत्सवः
. अङ्गन्यासः
तेजोरूपदेवीमयं भावयन्नात्मानं मुहुरावृत्तेन सौः नमः इति नमोऽन्तेन मूलेन शिरोमुखहृन्मूलाधारेषु न्यासं विधाय, सर्वाङ्गे च व्यापकं कृत्वा, सौः स् हृदयाय नमः, सौः औ शिरसे स्वाहा, सौः : शिखायै वषट् , सौः स् कवचाय हुम् , सौः औ नेत्रत्रयाय वौषट् , सौः : अस्त्राय फट् , इति मूलमन्त्रावयवैद्विरावृत्तैः वर्णषडङ्ग, सर्वेण मूलेन षड्वारमावृत्तेन मन्त्रषडङ्गं च कुर्यात् । इह मूलमन्त्रस्य तृतीयोऽवयवः केवलो विसर्गों न त्वकारविशिष्ट इति च ज्ञेयम् ॥
चिदनौ सर्वतत्त्वविलापनम् ___ अथ काकचञ्चूपुटाकृतिना मुखेन बाह्यमनिलमन्तराकृष्य संस्तभ्य, मूलं सप्तविंशतिवारमावर्त्य, वक्ष्यमाणक्षित्यादिशिवान्तषट्त्रिंशत्त्वत्त्वात्मकं वेद्यं नाभौ मुद्रितं विभाव्य, पुनः प्रोक्तवारं मूलं जप्त्वा, नम इति शिखाबन्धोत्तरं पुनः पूर्ववत् अनिलमापूर्य, तेन सर्वकारणचिद्रूपममिमुद्दीप्य, तत्र प्राङ्मुद्रितस्य वेद्यस्य विलयनं भावयित्वा ॥
अर्घ्यशोधनम् श्रीक्रमोक्तेन क्रमेण सामान्यविशेषाये आसादयेत् । अत्र चोभयोरप्यर्थ्ययोः प्रवेशरीत्या अन्तरन्तश्चतुरश्रादिबिन्द्वन्तमण्डलकरणम् , अं आत्मतत्त्वाय आधारशक्त्यै वौषडित्याधारस्थापनम् , उं विद्यातत्त्वाय पद्मासनाय वौषडिति पात्रनिधानम् , मं शिवतत्त्वाय सोममण्डलाय नम इति शुद्धसलिलापूरणम् ।
ब्रह्माण्डखण्डसम्भूतमशेषरससंभृतम् ।
आपूरितं महापात्रे पीयूषं अर्ध्यमावह ॥ इति क्षीरपूरणम् , हृदयशक्तिश्रीपादुकां पूजयामीत्याद्यस्त्रान्तं प्रागुक्तषडङ्गद्वयम् , मूलेन दशधा अभिमन्त्रणम् , चतुर्नवतिमन्त्राभिमन्त्रणाभावश्च विशेषः । ततो विशेषार्थ्यबिन्दुभिः सम्प्रोक्ष्य वरिवस्यावस्तूनि ॥