________________
उन्मनोल्लास: षष्ठः-परापद्धतिः
. . तत्त्वकदम्बस्य हृत्पद्मस्थापनम् पूर्व नाभौ मुद्रयित्वा तप्तायोद्रवमिव चिदनौ विलापितं षट्त्रिंशत्तत्त्वकदम्बरूपं वेद्यं हृत्सरोजमानीय स्थापयेत् ॥
पराचक्रनिर्माणम् अथ सकुसुमक्षेपैः मूलपूर्वकैः वक्ष्यमाणैः मन्तैः पराम्बायाश्चक्ररूपं आसनं निर्मिमीत । यथा
सौः पृथ्वीयोगपीठाय नमः, अप् , तेजः, वायु, आकाश, गन्ध, रस, रूप, स्पर्श, शब्द, उपस्थ, पायु, पाद, पाणि, वाक्, प्राण, जिह्वा, चक्षुः, त्वक्, श्रोत्र, अहङ्कार, बुद्धि, मनः, प्रकृति, पुरुष, नियति, काल, विद्या, कला, राग, माया, शुद्धविद्या, ईश्वर, सदाशिव, शक्ति, शिवयोगपीठाय
नमः ॥ इत्येवं पराचक्रं निर्माय ॥
चक्रे देव्याः पूजा ब्रह्मरन्ध्र
अकळशशाङ्कामा त्र्यक्षा चन्द्रकलावती ।
मुद्रापुस्तलसद्वाहा पातु मां परमा कला ॥ इति ध्यातां सादाख्यचन्द्रकलारूपां श्रीपराम्बां मूलेन हृदयगते पराचक्रे आवाह्य, मूलान्ते श्रीपराम्बाऽऽवाहिता भव इत्यादिरीत्या तत्तन्मुद्राविधानपूर्वकं आवाहनाद्यवगुण्ठनान्तं कृत्वा, वन्दनधेनुयोनिमुद्राः प्रदी, मूलेन पुनः पुनरावृत्तेन श्रीपरादेव्यै पाचं कल्पयामि नमः इत्यादिरीत्या पाद्यार्थ्याचमनीयस्नानवासोगन्धपुष्पधूपदीपनीराजनछत्रचामरयुगदर्पणनैवेद्यपानीयताम्बुलाख्यान् षोडशोपचारान् विधाय, नैवेद्याङ्गत्वेन पूर्वोत्तरापोशने हस्तप्रक्षाळनगण्डूषाचमनीयानि च दद्यात् । नैवेद्ये त्रिकोणवृत्तचतुरश्रमण्डलकरणम् , मूलेन प्रोक्षणम् , वं इति धेनुमुद्रया अमृतीकरणम् , मूलेन सप्तवाराभिमन्त्रणम्, प्राणादिमुद्राप्रदर्शनं चानुष्ठेयम् । ततो वामकरतत्त्वमुद्रासन्दष्टद्वितीयशकलगृहीतक्षीरबिन्दुसहपतितैः दक्षकरोपात्तैः कुसुमैः, सौः स्
70