Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
नित्योत्सव :
प्रकाशरूपिणीपराभट्टारिकाश्रीपादुकां पूजयामि तर्पयामि नमः, सौः औ विमर्श - रूपिणीपराभट्टारिकाश्रीपादुकां पूजयामि तर्पयामि नमः, सौ: : प्रकाशविमर्शरूपिणीपराभट्टारिकाश्रीपादुकां पूजयामि तर्पयामि नमः, इति त्रिभिः मन्त्रैः क्रमेण देव्या मूलाधारहृन्मुखेष्वभ्यर्च्य सौः महाप्रकाशविमर्शरूपिणीपराभट्टारिकाश्रीपादुकां पूजयामि तर्पयामि नमः इति मन्त्रेण देवीं दशवारं सन्तर्प्य ॥
१९४
देव्यां अखिलतत्वहोमभावनम्
तामेव कालाग्निकोटिदीप्तां ध्यात्वा, तस्यां सौः पृथ्वीं जुहोमि स्वाहा, सौः अपो जुहोमि स्वाहा, इत्यादिरीत्या प्राम्विलाप्य हृदये स्थापितं षट्त्रिंशत्तत्त्वकदम्बकं पृथक् पृथक् मनसा जुहुयात् ॥
इह क्रमे अयमेव होम: ॥
गुर्वोषत्रययजनम्
ततो मूलपूर्विकयोक्तया श्रीगुरुपादुकया मस्तकस्थं श्रीगुरुं त्रिः सम्पूज्य पुनश्चिदग्निमुद्दीप्तं विभाव्य देव्याः पश्चात् प्रागपवर्गे रेखात्रये दक्षिणसंस्थाक्रमेण गुर्वोघत्रयं यजेत् । यथा
―――――――――――――
सौः पराभट्टारिकादेव्यम्बाश्रीपादुकां पूजयामि तर्पयामि नमः, अघोरानन्दनाथश्री, श्रीकण्ठानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || इति दिव्यौघः ॥
सौः शक्तिधरानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, क्रोधानन्दनाथश्री', त्र्यम्बकानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति सिद्धौषः ॥
"
सौः आनन्दानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, प्रतिभादेव्यम्बानन्द, 'वीरानन्द, संविदानन्द, मधुरादेव्यम्बानन्द ज्ञानानन्द, श्रीरामानन्द, योगानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति मानवौघः ॥
1 परा-अ.

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247