Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 183
________________ नित्योत्सवः ग्रहणकालीनस्य जपस्य समसङ्ख्याकं तद्दशांशं वा होमं, तद्दशांशं तर्पणं, तत्समसङ्ख्याकं तद्दशांशं वा ब्राह्मणभोजनं च कुर्यात् । यद्वा — ग्रहणपुण्यकाल एव मन्त्रानुसारेण जपस्य तत्समांशस्य तद्दशांशस्य वा होमस्य तदनुगुणस्य तर्पणस्य च कालं विभज्य जपाद्याचरेत् । परेद्युः तर्पणसमसङ्ख्याकं तद्दशांशं वा ब्राह्मणभोजनं कारयेदित्येकः प्रकारः ॥ कृष्णाष्टम्यां प्रातः कृतनित्यक्रियः पूर्ववत् सङ्कल्प्य अयुतचतुष्टयं जपं सप्तधा विभज्य प्रत्यहं चतुर्दशोत्तरसप्तशताधिकसहस्रपञ्चकसङ्ख्यया (५७१४) तत्कृष्णत्रयोदशीपर्यन्तं (६×५७१४ = ३४,२८४) जप्त्वा चतुर्दश्यां षोडशोत्तरसप्तशताधिकसहस्रपञ्चकं (५७१६;५७१६+३४२८४=४००००) जपेत् । सङ्कल्पे चाद्य कृष्णाष्टमीमारभ्य एतच्चतुर्दशीपर्यन्तमिति विशेषः । होमादिविधिस्तु तद्दशांश एवेत्यन्यः ॥ प्रातः नित्यक्रियोत्तरं प्राग्वत् सङ्कल्प्य अकारादिक्षकारान्तान् मातृकावर्णान् आनुलोम्येनोच्चार्य मूलं च सकृदुच्चार्य पुनर्मातृकावर्णान् विलोमानुच्चारयेत् । इत्येवंरीत्या प्रत्यहमष्टोत्तरशतसङ्ख्यया मासमात्रं जप्त्वा होमादि कुर्यात् । सङ्कल्पस्तु एतदनुगुण एवोः इत्यपरः || यथासम्भवं अनयोः प्रत्याम्नाययोः जपस्य चतुर्गुणितत्वं तर्पणादेश्च तद्दशांशत्वं बोध्यम् । प्रत्यहं रात्रौ त्रिकालं सर्वोपचारैरिष्टदेवतां साङ्गां सावरणां अर्चयेत् । एवं षण्मासान् मासमात्रं वा पूजयितुः पुरश्चरणमन्तरेणापि विद्यासिद्धिः भवति । सङ्कल्पश्चैतदनुरूप एवोह्यः इति चापरः || १६२ सूर्योदयं समारभ्य यावत्सूर्योदयावधि । तावज्जत्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ॥ सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रपूज्य च । केवलं देवभावेन जप्त्वा सिद्धीश्वरो भवेत् ॥ इति चान्यः ॥ प्रकारान्तराणि च ग्रन्थान्तरेषु द्रष्टव्यानीति दिक ॥ ' तत्समसंख्याकं तद्दशांशं वा तर्पणं -अ. " मासत्रयं इत्यधिकः भ.

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247