________________
नित्योत्सवः
ग्रहणकालीनस्य जपस्य समसङ्ख्याकं तद्दशांशं वा होमं, तद्दशांशं तर्पणं, तत्समसङ्ख्याकं तद्दशांशं वा ब्राह्मणभोजनं च कुर्यात् । यद्वा — ग्रहणपुण्यकाल एव मन्त्रानुसारेण जपस्य तत्समांशस्य तद्दशांशस्य वा होमस्य तदनुगुणस्य तर्पणस्य च कालं विभज्य जपाद्याचरेत् । परेद्युः तर्पणसमसङ्ख्याकं तद्दशांशं वा ब्राह्मणभोजनं कारयेदित्येकः प्रकारः ॥
कृष्णाष्टम्यां प्रातः कृतनित्यक्रियः पूर्ववत् सङ्कल्प्य अयुतचतुष्टयं जपं सप्तधा विभज्य प्रत्यहं चतुर्दशोत्तरसप्तशताधिकसहस्रपञ्चकसङ्ख्यया (५७१४) तत्कृष्णत्रयोदशीपर्यन्तं (६×५७१४ = ३४,२८४) जप्त्वा चतुर्दश्यां षोडशोत्तरसप्तशताधिकसहस्रपञ्चकं (५७१६;५७१६+३४२८४=४००००) जपेत् । सङ्कल्पे चाद्य कृष्णाष्टमीमारभ्य एतच्चतुर्दशीपर्यन्तमिति विशेषः । होमादिविधिस्तु तद्दशांश एवेत्यन्यः ॥
प्रातः नित्यक्रियोत्तरं प्राग्वत् सङ्कल्प्य अकारादिक्षकारान्तान् मातृकावर्णान् आनुलोम्येनोच्चार्य मूलं च सकृदुच्चार्य पुनर्मातृकावर्णान् विलोमानुच्चारयेत् । इत्येवंरीत्या प्रत्यहमष्टोत्तरशतसङ्ख्यया मासमात्रं जप्त्वा होमादि कुर्यात् । सङ्कल्पस्तु एतदनुगुण एवोः इत्यपरः ||
यथासम्भवं अनयोः प्रत्याम्नाययोः जपस्य चतुर्गुणितत्वं तर्पणादेश्च तद्दशांशत्वं बोध्यम् । प्रत्यहं रात्रौ त्रिकालं सर्वोपचारैरिष्टदेवतां साङ्गां सावरणां अर्चयेत् । एवं षण्मासान् मासमात्रं वा पूजयितुः पुरश्चरणमन्तरेणापि विद्यासिद्धिः भवति । सङ्कल्पश्चैतदनुरूप एवोह्यः इति चापरः ||
१६२
सूर्योदयं समारभ्य यावत्सूर्योदयावधि । तावज्जत्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ॥ सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रपूज्य च । केवलं देवभावेन जप्त्वा सिद्धीश्वरो भवेत् ॥
इति चान्यः ॥
प्रकारान्तराणि च ग्रन्थान्तरेषु द्रष्टव्यानीति दिक ॥
' तत्समसंख्याकं तद्दशांशं वा तर्पणं
-अ.
" मासत्रयं इत्यधिकः भ.