________________
प्रौढोल्लासः चतुर्थः-श्यामाक्रमः
कूर्मचक्रलक्षणम् समीकृते भूतले प्राक्प्रत्यगायताः दक्षिणोत्तरायताश्चतस्रश्चतस्रो रेखा विलिख्य नवकोष्ठानि विधाय तत्र पूर्वादिप्रादक्षिण्यक्रमेण अष्टसु कोष्ठेषु क च ट त प य श ळा ख्यान् अष्टवर्गान् अकारादिस्वरद्वयं च विलिख्य मध्यकोष्ठे श्रीकारं विलिखेत् । इदं च कूर्मचक्रं क्षेत्रग्रामगृहभेदात् त्रिविधम् । तत्र क्षेत्रग्रामयोः तत्तन्नामाद्यक्षरयुक्तं कोष्ठं मुखं कूर्मस्य । एतदेवास्य दीपस्थानमुच्यते । गृहे तु गृहपतेः नामाद्यक्षरयुक् कोष्ठं मुखम् । तत्पार्श्वद्वयगतकोष्ठद्वयं हस्तौ । तदधःस्थितं कुक्षिः । तदधःस्थितौ तु चरणौ। कुक्षिमध्यगतं कोष्ठं पृष्ठम् । चरणमध्यगतं कोष्ठं च पुच्छं इति विवेकः । एवमुक्तप्रकारम्य क्षेत्रादौ विभावितस्य कूर्मस्य मुखे पृष्ठे वा जपे होमे च सर्वार्थसिद्धिः । करयोः तनौ कोष्ठान्तराणि अनुपयुक्तानीति कूर्मचक्रानावश्यकतोक्ता कतिपयेषु स्थलेषु । यथा
कुरुक्षेत्रे प्रयागे च गङ्गासागरसङ्गमे ।
महाकाळे च काश्यां च दीपस्थानं न चिन्तयेत् ॥ इति । दीपस्थानोपलक्षितत्वात् कूर्मचक्रमपि दीपस्थानमित्युक्तम् । इह चक्रे चोक्तेषु कोष्ठेषु रिपुस्थानं बिचिन्त्य तत्त्यागपूर्वकमवशिष्टं मित्रस्थानमुपादेयम् । अरिमित्रविचारो यथा
अद्वयस्य ठकारेण ठकारस्यापि तेन च । लद्वयस्य पकारेण पकारस्यापि तेन च ॥ ओद्वयस्य षकारेण षकारस्यौयुगेन च । जकारस्य टकारेण झकारस्य खकारतः ॥ उकारस्य लकारेण फकारस्य धकारतः । भकारस्य तु रेफेण यकारस्य सकारतः ॥ अरित्वमेषां वर्णानां अन्येषां मित्रभावना ॥ इति ॥
मालासंस्कारः ताच अकारादिक्षकारान्तमातृकावर्णरुद्राक्षमुक्ताफलमाणिक्यस्फटिकप्रवाळस्वर्णरजतशङ्करक्तचन्दनोपादानकमणिपुत्रजीवपद्मवीजकुशग्रन्थ्यादिमय्यः ।।