________________
१६४
नित्योत्सवः
अक्षमालायाः संस्कारानपेक्षा
अक्षमाला हि ब्रह्मरन्ध्रस्य दक्षभागादिन | भिमभिव्याप्य वामभागपर्यन्तमवरोहारोहणक्रमेण ब्रह्मनाड्यां अन्योन्याभिमुखत्वेन ग्रथितैः आनुपूर्व्येणोच्चारितैः अकारादिभिः ळकारान्तैः पुनः प्रातिलोम्येनोच्चारितैः च ळकारादिभिः अकारान्तैः वर्णैः शतबीजात्मिका भवति । क्षकारस्य मेरुस्थानीयस्य ळकारद्वयस्य मध्य उच्चारणमात्रम् । न तु जपसङ्ख्याऽन्तर्गणना । अत्रानुलोम्येन अवरोहारोहयोः प्रथमं मातृका ततो मन्त्रः । प्रातिलोम्येन अवरोहारोहयोस्तु प्रथमं मन्त्रः ततो मातृकेति तत्त्वम् । शतान्ते अ क च ट त प य शाख्यवर्गाष्टकादित्वेन जपस्य अष्टोत्तरशतत्वं ज्ञेयम् । एवं सहस्रादौ च । अस्या मालाया न संस्कारापेक्षा ॥
रुद्राक्षमालासंस्कारः
अष्टोत्तरशतं रुद्राक्षान् षड्गुणिते वक्ष्यमाणान्यतमे सूत्रे सप्रणवैकैकमा - तृकोच्चारणपूर्वकमन्तरान्तरा सग्रन्थिकं अन्योन्याभिमुखं गोपुच्छाकारेण सर्पाकारेण वा प्रथयित्वा स्थूलमेकं रुद्राक्षमेकीकृते सूत्राग्रद्वये मेरुत्वेन ग्रथयित्वा नवसङ्ख्याकैः अश्वत्थपत्रैः अष्टदलपद्मं विरच्य तत्र मालां निवेश्य मूलमन्त्रान्ते गोमूत्रगोमयगव्यदुग्धदधिवृताख्येन पञ्चगव्येन, ॐ सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः । भवे भवे नाति भवे भवस्व मां भवोद्भवाय नमः ॥ - - इति मन्त्रान्ते कुशोदकेन च प्रक्षाळ्य, ॐ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः - इति मन्त्रान्ते चन्दनागरुकर्पूरादिभिराघर्षणं विधाय ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ — इति मन्त्रेण धूपयित्वा ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ इति मन्त्रेण चन्दनकस्तूरीकुङ्कुमकर्पूरैः लेपयित्वा, अक्षमालां वामकरपुटे निधाय, ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥ - इति मन्त्रेण अष्टोत्तरशतवारमभिमन्त्र्य, रुद्राक्षमालायाः प्राणाः इह प्राणाः । रुद्राक्षमालायाः जीव इह स्थितः । रुद्राक्षमालायाः सर्वेन्द्रियाणि रुद्राक्षमालायाः वाङ्मनः प्राणाः इह आयान्तु