SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रौढोल्लासः चतुर्थ::- श्यामाक्रमः स्वाहा ||—इति मन्त्रेण प्राणप्रतिष्ठां कृत्वा, उपास्यदेवतां तत्रावाह्य, मूलेन पञ्चधा उपचर्य, तेन मातृकावर्णैश्चाभिमन्त्र्य, होमप्रकरणोक्तरीत्या अग्निमुखं विधाय मूलेन अष्टोत्तरशताज्याहुतीः हुत्वा, सम्पाताज्यं मालायां निक्षिपेत् । अशक्तौ तु होमसङ्ख्याद्विगुणं मूलमन्त्राभिमन्त्रणं इति ॥ मालाऽन्तरसंस्कार: अथान्यासां मालानां संस्कारः — उक्तरीत्या ग्रथितां मालां प्रासादमन्त्रेण पञ्चगव्यं क्षणं निक्षिप्य, तस्मादुद्धृत्य, कुशोदकेन प्रक्षाल्य, चन्दनादिभिरुपलिप्य, पात्रे निधाय, पञ्चायतनदेवताः तत्तन्मन्त्रेणावाह्य, पञ्चधोपचर्य, प्रासादेन शतवारानभिमन्त्र्य, सूर्यादीन् ग्रहानिन्द्रादीन् दिक्पालांश्च तत्तन्मन्त्रेण सम्पूज्य, सघृतैः तिलैः यथाशक्तिवारं मूलेनाग्नौ जुहुयात् । अशक्तौ अभिमन्त्रयेत् । ततो यथाविभवं काञ्चनं गुरवे दक्षिणां दत्वा ब्राह्मणांश्च भोजयेत् । इति ॥ १६५ संस्कारान्तरं यथा -- सूत्रं मणींश्च पञ्चगव्ये दिनत्रयं संस्थाप्य, चतुर्थदिने उद्धृत्य, अस्त्रेण प्रक्षाल्य, हृन्मन्त्रेण स्वेष्टमन्त्रेण वा प्रत्येकं आवृत्तेन मणीनन्योन्याभिमुखं ग्रथयित्वा, स्थण्डिले स्वेष्टदेवतासपर्यामण्डलं विधाय तत्र तामभ्यर्च्य, मूलमष्टोत्तरशतसङ्ख्यं जप्त्वा तत्तत्कल्पोक्तपुरश्चरणहोमद्रव्येण वृतेन वा यथाशक्ति हुत्वा, मण्डले मालां निधाय, तस्यामस्त्रमन्त्र - मूलमन्त्र - षडङ्गमन्त्रांश्च विन्यस्य, तां स्वेष्टदेवतारूपां विभाव्य, सम्पूज्य, सर्वभूतबलिं दत्वा, आचार्यै दक्षिणाऽऽदिभिः परितोष्य ब्राह्मणान् भोजयेदिति ॥ उक्तसंस्कारविधिः त्रैवर्णिकविषयः । स्त्रीशूद्राणां तु उपास्यमूलमन्त्रेणैव सबै कार्यम् ॥ यन्मन्त्रजपार्थं या माला संस्कृता तया तस्यैव जपः कार्यो नान्यस्य । अत्र च विशेष : शिवमन्त्रेण संग्रथ्य शक्तिमन्त्रं जपेदपि । शक्तिमन्त्रेण संग्रथ्य शिवमन्त्रं जपेच्छिवे ॥ वेण मातृकाभिर्वा थ्यन्ते मणयो यदि । तदा सर्वेऽपि जप्तव्या मनवो मालया तया ॥ इति ॥ ध्रुवः प्रणवः ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy