________________
नित्योत्सवः
देवताभेदेन सूत्रभेदः
देवताभेदेन सूत्रभेद उक्तः । यथा - देव्या रक्तपट्टसूत्रम् । शिवस्योर्णाभवं श्वेतं वा वल्कलं वा । सूर्यगणेशयोः कार्पासजम् । तच्च सुवासिन्या ब्राह्मण्या कर्तितम् । स्वसमानजातीययोषित्कर्तितं वा । त्रिगुणं त्रिगुणीकृतम् । यत्र ब्राह्मणीकर्तितं न मिलति तत्र वर्णान्तरीयकेवलसुवासिनीकर्तितं ग्राह्यम् । अन्येषु सूत्रेषु वैच्छिकं गुणस्थौल्यं मानं च ॥
1
मालासंस्कारकाल:
मालासंस्कारकालस्तु — विष्णोः द्वादश्यां पूर्वाह्नः । शक्तेः अष्टमीनवमीचतुर्दशीनां रात्रिः । शिवस्य त्रयोदशीदिवा । सूर्यस्य सप्तमीदिवा इति ॥
मालाभेदेन फलभेद:
मालाभेदेन फलभेदो यथा – मातृकाऽक्षमाला क्षिप्रं मन्त्रसिद्धयै । रुद्राक्षमाला मोक्षाय । मौक्तिकमाणिक्यमय्यौ साम्राज्याय । स्फाटिकी सर्वेभ्यः कामेभ्यः । पुत्रजीवमयी सम्पत्सारस्वतावाप्त्यै । पद्मबीजमयी श्रीयशोभ्याम् । रक्तचन्दनमयी वश्यभोगाभ्याम् । इत्यन्यासामपि फलानि ग्रन्थान्तरेषु द्रष्टव्यानि ॥
प्रायश्चित्तम्
सूत्रे जीर्णे नवेन ग्रथयित्वा मूलेनाष्टोत्तरशतवारानभिमन्त्रयेत् । जपसमये प्रमादात् करगलितायां छिन्नायां वा मालायां निषिद्धस्पर्शे वा अष्टोत्तरशतमूलमन्त्रजपः प्रायश्चित्तम् ॥
अपभेदा:
अथ जपभेदाः । ज्ञानार्णवे—
निगदेनोपांशुना वा मानसेनाथवा जपेत् । निगदः परमेशानि स्पष्टं वाचा निगद्यते ॥ अव्यक्तश्च स्फुरद्वक्त उपांशुः परिकीर्तितः । मानसस्तु वरारोहे चित्तेनान्तररूपवान् ॥