________________
१६१
प्रौढोल्लासः चतुर्थः-श्यामाक्रमः नचैवापूज्य भुञ्जीत शिवलिङ्गं महेश्वरि ।
सूतके मृतके चापि न त्याज्यं शिवपूजनम् ॥ इति लिङ्गपुराणे । पराशरोऽपि
उपासने तु विप्राणामङ्गशुद्धिः प्रजायते ॥ इति च । एवमन्यान्यपि वचनानि तन्त्रान्तरेषु बहुलं उपलभ्यमानानि विस्तरभयान्नेह लिखितानि । सूतकाढौ नैमित्तिककाम्ययोः अनधिकार एव, साधकम्य प्रतिबन्धकबाहुल्यात् ॥
सिद्धिपर्यन्तं पुरश्चरणस्य अभ्यासः एकेन पुरश्चरणेन यदि न मन्त्रः सिध्यति तदा तस्य द्वयं त्रयं वा कुर्यात् । तथाऽपि तदसिद्धौ सिद्धिकारकाः प्रयोगाः ग्रन्थान्तरोक्ताः ग्राह्याः । सिद्धिसूचकानि चान्यतो ज्ञेयानि. इह तु विस्तरभयान्न लिखितानि ॥
सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन हि । सर्वे मन्त्राश्च सिध्यन्ति तत्प्रभावात् कुलेश्वरि ॥ सम्य सिद्धैकमन्त्रस्य नासाध्यं विद्यते क्वचित् ।
बहुमन्त्रवतः पुंसः का कथा शिव एव सः ॥ अतः पुरश्चरणमावश्यकमिति ॥
__ पुरश्चरणप्रत्याम्नायाः अथ सङ्गत्या पुरश्चरणप्रत्याम्नायाः कतिचित् लिख्यन्ते । शशिसूर्योपरागे त्रिरात्रमेकरात्रं वा पूर्वमुपोष्य एक भुक्तं वा विधाय ग्रहणारम्भे घटिकार्धात् प्रागेव स्वातः समुद्रगाया नद्यास्तटाकादेर्वा नाभिमात्रजले तिष्ठन् , अशक्तौ तु तट एवोपविष्टः, आचम्य, प्राणानायम्य, देशकालौ सङ्कीर्त्य, ॐ अमुकराशिगते सवितरि सोमस्य सूर्यस्य वा ग्रहणे अमुकगोत्रोऽमुकशर्मवर्मादिरहं अमुकविद्यासिद्धिकामः स्पर्शमारभ्य विमुक्तिपर्यन्तं जपं करिप्य इति सङ्कल्प्य जपेत् । ततोऽपरेद्युः
1 भक्तं-ब२,
३.