________________
१६०
नित्योत्सवः तर्पणेऽपि । द्विजभक्तस्य शूद्रस्य द्विजस्त्रीणामपि होमप्रतिनिधिः जप एव । तेषां होमे तु नाधिकारः । ब्राह्मणभोजनस्य तु न क्वापि प्रतिनिधिः ॥
आरब्धस्य पुरश्चरणादेः आशौचेऽपि कार्यत्वम् इदं च पुरश्चरणमारब्धं सत् आशौचप्राप्तावपि कार्यम् । नित्यार्चनादि च । तदुक्तम्
जपो देवार्चनविधिः कार्यों दीक्षान्वितैनरैः ।
नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम् ॥ इति देवीयामले ।
सूतके मृतके चैव नित्यं विष्णुमयस्य च ।
सानुष्ठानस्य विप्रेन्द्र सद्यः शुद्धिः प्रजायते ॥ इति नारदपाश्चरात्रे ।
शिवविप्ण्वर्चने दीक्षा यस्य चामिपरिग्रहः । इति तस्येति शेषः ।
ब्रह्मचारियतीनां च शरीरे नास्ति सूतकम् ॥ इति विष्णुयामले।
ब्राह्मणस्यैव पूज्योऽहं शुचेरप्यशुचेरपि । पूजां गृह्णामि शूद्राणां त्वाचारनिरतात्मनाम् ॥ यज्ञव्रतविवाहेषु श्राद्धे होमार्चने जपे । आरब्धे सूतकं न स्यादनारम्भे च सूतकम् ॥ आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया ॥ इति विष्णुवचनम् । ब्राह्मणम्येत्युपलक्षणं क्षत्रियवैश्ययोः ।