________________
प्रौढोल्लासः चतुर्थ::- श्यामाक्रमः
इदं च द्रव्यं इह इन्द्रियकामाग्निहोत्राङ्गदधिवन्नित्यं काम्यं च, संयोगपृथक्त्वात् । तिलैः शान्त्या इत्यादिविधीनामन्यतः सिद्धहोमाश्रयेण, गोदोहनस्य तादृशप्रणयनाश्रयेणेव, फलायगुणविधिरूपत्वात्, सत्यां कामनायां अयमेव होमो द्रव्यान्तरैरपि वक्ष्यमाणैः कार्यः काम्यस्य नित्यबाधकत्वात् ॥
१५९
पुरश्चरणांगं तर्पणम्
ततो नद्यादौ चतुरश्रमण्डलं विधाय तत्र चिन्तिते श्यामायन्त्रे देवीमावाह्य पञ्चधा उपचर्य सुरभिलेन सुवर्णरजतताम्रादिपात्रगृहीतेन सलिलेन मूलान्ते श्रीमातङ्गीश्वरीं तर्पयामीति होमदशांशं तर्पयेत् । सत्यानुकूल्ये जपस्थान एव वा पूजाचक्रे तर्पयेत् । " तर्पणेऽपि तथैव स्यान्नमसोन्ते पुनर्नमः" इति शक्तिसङ्गमतन्त्रोक्तेः नमोन्तेष्वपि मन्त्रेषु पुनः नमस्तर्पयामीति प्रयोगः । तन्त्रान्तरानुसारिणो मार्जनपक्षेऽपि नमोयोजनं तत्रैवोक्तम् ।।
पुरश्चरणांगं भोजनम्
ततः तर्पणदशांशसङ्ख्याकानेतद्विद्यादीक्षितानलाभे यथासम्भवं तत्तन्मन्त्रदीक्षितान्वा सदाचारान् प्रातः निमन्त्रिताभ्यञ्जितान् ब्राह्मणान् सुवासिनी: कुमारीश्च यथाविभवं वस्त्रगन्धादिभिः देवताधियाऽभ्यर्च्य मृष्टान्नेन भोजितान् ताम्बूलदक्षिणापरितोषितान् प्रदक्षिणीकृतनमस्कृतानाशिषो गृहीत्वा विसृजेत् ॥
तर्पणदशांशब्राह्मणभोजनाशक्तौ तु तर्पणोक्तवज्जले देवतामावाह्य उपचर्य च मूलान्ते आत्मानमभिषिञ्चामि नमः इति कुम्भमुद्रया तर्पणदशांशवारं मूर्धन्यभिषेकं वा कुशैः मार्जनं वा विधाय तद्दशांशं ब्राह्मणान् भोजयेत् ॥
इत्येकः पक्षः । प्रतिलक्षान्ते सर्वान्ते वा होमादि कुर्यादित्यपरौ ॥
होमप्रत्या जपः
होमाशक्तौ ब्राह्मणानां पुरश्चरणजपसङ्ख्याद्विगुणो जप इति मुख्यः पक्षः । होमसङ्ख्याद्विगुणो जप इति गौणः । क्षत्रियादीनां त्रयाणां त्रिगुणादिर्जपः । एवं