________________
१५८
नित्योत्सवः
हसन्ति हसितालापे मातङ्गिपरिचारिके । मम भयविघ्ननाशं कुरु कुरु ठः ठः ठः हुं फट् स्वाहा ॥ इति ॥
मूलमन्त्रश्च-न्यासोक्तसप्तदशखण्डसमष्टिरूपः ॥
उत्तराङ्गमन्त्रास्तु--ऐं नमः उच्छिष्टचाण्डालि मातङ्गि (हुं फट् स्वाहा इति पाठान्तरम्) सर्ववशङ्करि स्वाहा-इति श्यामाझं लघुश्यामा ॥
ऐं क्लीं सौः वद वद वाग्वादिनि स्वाहा—इति तदुपाङ्गं वाग्वादिनी ॥ ॐ ओष्ठापिधाना नकुली दन्तैः परिवृता पविः ।
सर्वस्यै वाच ईशाना चारु मामिह वादयेत् ॥ इति तत्प्रत्यङ्गं नकुली ॥
जपकाल: अयं च जपो अपराह्ने कर्तव्यः, अपराह्ने श्यामेति सूत्रेण अपराहस्य पूजाकालत्वविधानात् । अन्ये त्वामध्यन्दिनमेव । देशोपप्लवादिसम्भावनायामासायाहमपीति स्थितिः ॥
स्त्रीशूद्रयोः प्रणवप्रत्यायः द्विजातीनां जपाद्यन्तयोः प्रणवोच्चारः । स्त्रीशूद्रयोस्तु सबिन्दुकचतुर्दशस्वर उच्चार्यः ॥
पुरश्चरणांगहोमः एवं जपोत्तरं तस्मिन्नेवाहनि श्रीक्रमोक्तेन विधिना कुण्डस्थण्डिलान्यतरप्रतिष्ठापितेऽनौ देव्या उपचारान्ते सर्वासामावरणदेवतानां एकैकाहुतिं तत्तन्मन्त्रैः प्रधानदेवतायाः दशाहुतीश्च स्वाहाऽन्तमूलेन उद्देशत्यागपूर्वकं एकैकेन त्रिमध्वक्तेन पलाशकुसुमेन हुत्वा अथ जपदशांशं च हुत्वा होमशेषं समापयेत् ।
मन्त्रान्ते या वहिजाया सा तु मन्त्रस्वरूपिणी ।
तदन्तेऽन्यां प्रयुञ्जीत सा होमानतया मता ॥ इति शक्तिसङ्गमतन्त्रवचनात् स्वाहाऽङ्गमन्त्रेष्वपि पुनः स्वाहाप्रयोगः कार्यः ।