________________
प्रौढोल्लासः चतुर्थः-श्यामाक्रमः
श्यामोपासकनियमाः एतदुपासकस्यावश्यानुष्ठेयाः नियमाः यथा
कदम्बतरुं न छिन्द्यात् । वाचा 'कालीति पदं नोच्चारयेत् । वीणावेणुवादननर्तनगाधागोष्ठीषु प्रवर्तमानासु पराङ्मुखो न भवेत् । गायकान् न निन्द्यात् इति ॥
पुरश्चरणसंकल्पः एवं नित्यसपर्यो निर्वर्तयन् पुरश्चरणमाचरेत् । तच्च जपहोमतर्पणब्राह्मणभोजनाख्याङ्गचतुष्टयसमष्टिरूपम् । तत्प्रकारस्तु-दीक्षाप्रकरणोक्तकाले श्रीगुर्वनुज्ञातो ब्राह्मणैः स्वस्ति वाचयित्वा आचम्य प्राणानायम्य अमुकशर्मवर्मादिरहं श्यामामन्त्रसिद्धिकामो लक्षसङ्ख्याकं जपं, प्रकृते कलियुगत्वात् तच्चतुर्गुणितं, तद्दशांशहवन-तद्दशांशतर्पणतद्दशांशब्राह्मण भोजनानि च करिष्य इति सङ्कल्पयेत् । एवं तत्तन्मन्त्रेषु तत्र तत्र प्रोक्तजप सङ्ख्याऽऽदिसङ्कल्पो ज्ञेयः ॥
मत्रजपः
अथ सति सम्भवे तन्त्रान्तरदृष्टेन विधिना ग्रामात् बहिः क्रोशे नगराच्च क्रोशद्वये क्षेत्रं परिगृह्णीयात् । अथवा समुद्रमहानदीतीरयोः पश्चिमाभिमुखवृषशून्यशिवायतनयोः विष्णुगृहपुण्यक्षेत्रतीर्थारण्यपर्वतशिखराश्वत्थबिल्वमूलविविक्तनिजगृहगोष्ठानां श्रीगुरुस्वेष्टदेवतासन्निध्योश्चान्यतमं देशमासाद्य दीपस्थानविन्यस्ते व्याघ्रचर्ममृगाजिनचित्रकम्बलकुशकटरक्तपटपट्टवसनोर्णावस्त्राद्यन्यतमे आसने उपविश्य विनानुत्सार्य प्राणानायम्य सङ्कल्प्य वक्ष्यमाणलक्षणया अक्षमालया वक्ष्यमाणसंस्कारया रुद्राक्षाद्यन्यतमया वा मालया पूर्वाङ्गमन्त्रपूर्वकं प्रत्यहं सहस्रसङ्ख्याकं मूलमन्त्र तद्दशांशान् उत्तराङ्गमन्त्रांश्च जप्त्वा पुनासादिकं कृत्वा । पूर्वाङ्गमन्त्रो यथा
1 कमलिनीपदं-भ.
भोजनतद्दशांशमार्जनानि च करिष्ये इति संकल्पयेत् । अपसंख्या १०००.., तद्दशांशहोमसंख्या १००००, तद्दशांशतर्पणसंख्या १०००, तद्दशांशब्राह्मणभोजनसंख्या १००, तइशांशमार्जनसंख्या १०॥ एवं-बर.
३ संख्यऽऽदिकल्पो-अ१.