________________
१५६
नित्योत्सवः अधोन्मीलदपाङ्गमंसवलितग्रीवं मुखं बिभ्रती
माया काचन मोहिनी विजयते मातङ्गकन्यामयी ॥ वीणावाद्यविनोद'गीतनिरतां लीलाशुकोल्लासिनी
बिम्बोष्ठी नवयावकार्द्रचरणामाकीर्णकेशाळिकाम् । हृयाङ्गी सितशङ्खकुण्डलधरां शृङ्गारवेषोज्वलां
मातङ्गी प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥ स्रस्तं केसरदामभिः वलयितं धम्मिल्लमाबिभ्रती
तालीपत्रपुटान्तरेषु घटितैस्ताटकिनी मौक्तिकैः । मूले कल्पतरोर्महामणिमये सिंहासने मोहिनी
काचित् गायनदेवता विजयते वीणावती वासना ॥ वेणीमूलविराजितेन्दुशकलां वीणानिनादप्रियां
क्षोणीपालसुरेन्द्रपन्नगवरैराराधिताङ्घिद्वयाम् । एणीचञ्चललोचनां सुवसनां वाणी पुराणोज्वलां
श्रोणीभारभरालसामनिमिषां [षः] पश्यामि विश्वेश्वरीम् ॥ मातङ्गीस्तुतिरियमन्वहं प्रजप्ता
जन्तूनां वितरति कौशलं क्रियासु । वाग्मित्वं श्रियमधिकां च गानशक्तिं
सौभाग्यं नृपतिभिरर्चनीयतां च ॥ इति मन्त्रकोशे तृतीयपटलीयो मातङ्गीस्तवः सम्पूर्णः ॥
सुवासिनीपूजाऽऽदि शेषकृत्यम् अथ श्यामलां शक्तिमाहूय श्रीक्रमोक्तक्रमेण पञ्चमवर्ज तामुपचर्य तच्छेषमुररीकृत्य हविःप्रतिपत्त्यादिक्रमशेष समापयेत् । हविःप्रतिपत्तौ मूलेन सर्वेण तत्त्वत्रयशोधनं विशेषः ॥ 'नैकनि–श्री.
' वलिम्--श्री.