________________
प्रौढोल्लास : चतुर्थ:
स्तुतिषु तव देवि विधिरपि पिहितमतिर्भवति विहितमतिः । तदपि तु भक्तिर्मामपि भवतीं स्तोतुं विलोभयति ॥ यतिजनहृदयनिवासे वासववरदे वराङ्गि मातङ्गि । वीणावादविनोदिनि नारदगीते नमो देवि ॥ देवि प्रसीद सुन्दरि पीनस्तनि कम्बुकण्ठि घनकेशि । मातङ्गि विद्रुमोष्ठि स्मितमुग्धाक्ष्यम्ब मौक्तिकाभरणे ॥ भरणे त्रिविष्टपस्य प्रभवसि तत एव भैरवी त्वमसि । त्वद्भक्तिलब्धविभवो भवति क्षुद्रोऽपि भुवनपतिः ॥ पतितः कृपणो मूकोऽप्यम्ब भवत्याः प्रसादले शेन । पूज्यः सुभगो वाग्मी भवति जडश्चापि सर्वज्ञः || ज्ञानात्मके जगन्मय निरञ्जने नित्यशुद्धपदे । निर्वाणरूपिणि शिवे त्रिपुरे शरणं प्रपन्नस्त्वाम् || त्वां मनसि क्षणमपि यो ध्यायति मुक्तामणीवृतां श्यामाम् । तस्य जगत्त्रितयेऽस्मिन् कास्ता ननु याः स्त्रियोऽसाध्याः || साध्याक्षरेण गर्भितपञ्चनवत्यक्षराञ्चिते मातः । भगवति मातङ्गीश्वरि नमोऽस्तु तुभ्यं महादेवि ॥ विद्याधरसुर किन्नरगुबकगन्धर्वयक्षसिद्धबरैः । आराधिते नमस्ते प्रसीद कृपयैव मातङ्ग || वीणावादनवेळानर्तदलाबुस्थगितवामकुचम् । श्यामलकोमलगात्रं पाटलनयनं स्मरामि महः ॥ अवटुतटघटित चूलीताडिततालीपलाशताटङ्काम् । वीणावादनवेळाकम्पितशिरसं नमामि मातङ्गीम् ॥ माता मरकतश्यामा मातङ्गी मदशालिनी । कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥ वामे विस्तृतिशालिनि स्तनतटे विन्यस्तवीणामुखं
तन्वीं तारविराविणीमसकलैरास्फालयन्ती नखैः ।
:--श्यामाकमः
१५५