Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 184
________________ प्रौढोल्लासः चतुर्थः-श्यामाक्रमः कूर्मचक्रलक्षणम् समीकृते भूतले प्राक्प्रत्यगायताः दक्षिणोत्तरायताश्चतस्रश्चतस्रो रेखा विलिख्य नवकोष्ठानि विधाय तत्र पूर्वादिप्रादक्षिण्यक्रमेण अष्टसु कोष्ठेषु क च ट त प य श ळा ख्यान् अष्टवर्गान् अकारादिस्वरद्वयं च विलिख्य मध्यकोष्ठे श्रीकारं विलिखेत् । इदं च कूर्मचक्रं क्षेत्रग्रामगृहभेदात् त्रिविधम् । तत्र क्षेत्रग्रामयोः तत्तन्नामाद्यक्षरयुक्तं कोष्ठं मुखं कूर्मस्य । एतदेवास्य दीपस्थानमुच्यते । गृहे तु गृहपतेः नामाद्यक्षरयुक् कोष्ठं मुखम् । तत्पार्श्वद्वयगतकोष्ठद्वयं हस्तौ । तदधःस्थितं कुक्षिः । तदधःस्थितौ तु चरणौ। कुक्षिमध्यगतं कोष्ठं पृष्ठम् । चरणमध्यगतं कोष्ठं च पुच्छं इति विवेकः । एवमुक्तप्रकारम्य क्षेत्रादौ विभावितस्य कूर्मस्य मुखे पृष्ठे वा जपे होमे च सर्वार्थसिद्धिः । करयोः तनौ कोष्ठान्तराणि अनुपयुक्तानीति कूर्मचक्रानावश्यकतोक्ता कतिपयेषु स्थलेषु । यथा कुरुक्षेत्रे प्रयागे च गङ्गासागरसङ्गमे । महाकाळे च काश्यां च दीपस्थानं न चिन्तयेत् ॥ इति । दीपस्थानोपलक्षितत्वात् कूर्मचक्रमपि दीपस्थानमित्युक्तम् । इह चक्रे चोक्तेषु कोष्ठेषु रिपुस्थानं बिचिन्त्य तत्त्यागपूर्वकमवशिष्टं मित्रस्थानमुपादेयम् । अरिमित्रविचारो यथा अद्वयस्य ठकारेण ठकारस्यापि तेन च । लद्वयस्य पकारेण पकारस्यापि तेन च ॥ ओद्वयस्य षकारेण षकारस्यौयुगेन च । जकारस्य टकारेण झकारस्य खकारतः ॥ उकारस्य लकारेण फकारस्य धकारतः । भकारस्य तु रेफेण यकारस्य सकारतः ॥ अरित्वमेषां वर्णानां अन्येषां मित्रभावना ॥ इति ॥ मालासंस्कारः ताच अकारादिक्षकारान्तमातृकावर्णरुद्राक्षमुक्ताफलमाणिक्यस्फटिकप्रवाळस्वर्णरजतशङ्करक्तचन्दनोपादानकमणिपुत्रजीवपद्मवीजकुशग्रन्थ्यादिमय्यः ।।

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247