Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 192
________________ १७१ प्रौढोल्लासः चतुर्थ:-श्यामाक्रमः साम्राज्याय । मुष्टिमितैः लाजैः कन्यायै । नन्द्यावतैः कवित्वाय । 'वजुळमल्लिकाजातीपुन्नागैः भाग्याय । बन्धूकजपाकिंशुकमधूकैः ऐश्वर्याय । कदम्बैः वश्याय । लवणैः शुक्तिप्रमाणैः आकर्षणाय । शालितण्डुलैः अर्धमुष्टिमितैः धान्याय । कुङ्कुमगोरोचनादिभिः गुञ्जामितैः सौभाग्याय । पलाशपुष्पैः तेजसे कपिलाघृतेन चोक्तमानेन। धुत्तूरकुसुमैरुन्मादाय । विषवृक्षनिम्बश्लेप्मातकविभीतकसमिद्भिः दशाङ्गुलप्रमाणाभिः शत्रुनाशाय । निम्बतैलाक्तैः लवणैः उक्तमानैः मारणाय । काकोलूकपक्षेणैकैकेन विद्वेषणाय । तिलतैलाक्तैः मरीचैः विंशत्या कासश्वासप्रशमनाय इति । पुष्पेषु स्थूलमेकैकं, अल्पानि द्वित्रीणि इति वा विवेकः । एतानि द्रव्याणि काम्यजपाङ्गेषु होमेषु तत्तज्जपदशांशसङ्ख्याकानि । प्राधान्येन होमे तु सङ्ख्याऽनुक्तौ सहस्रसङ्ख्याकानि । इह च प्रथमं अभीष्टदेवतायै विज्ञाप्य अमुककर्मसिद्धयर्थं एतावदाहुतीः करिष्यामीति सङ्कल्पयेत् । कर्षस्तु दशगुञ्जामितमाषषोडशकप्रमाणः । शुक्तिः कर्षद्वयम् । मुष्टिस्तु पलम् ॥ पुरश्चरणकाले विहितानि । मनःस्थैर्यशौचमौनमन्त्रार्थचिन्तननिर्वेदश्रद्धोत्साहक्रोधाभावसन्तोषेन्द्रियनिग्रह - ब्रह्मचर्यगुरुप्रणतिसुगन्धामलकस्नानसुवसनसुरभिळानुलेपनमध्यपत्रवर्जपलाशपत्रावलिमितैकवारभोजनप्रक्षाळितदर्भास्तीर्णधौतवस्त्रशयनत्रिषवणस्नानादीनि । अशक्तौ तु प्रातःखानमात्रम् ॥ निषिद्धानि अप्रियानृतभाषणकरञ्जविभीतकार्कस्नुहिछायाक्रमणप्रतिग्रहादीक्षितस्त्रीशुद्धपति - तनास्तिकसंभाषणबढेकमलिनवस्त्रधारणकाम्यकर्माविहितकर्मकांस्यभोजनासत्सङ्गोप्णजल - खानकञ्चुकोष्णीषधारणप्राणिहिंसापादुकायानशय्याऽऽरोहणनमत्वकुशरहितकरत्वादीनि अतिभोजनं च ॥ भोज्यानि शुक्लैकविधान्नं हैमन्तनीवारककुषष्टिका यवाः शूद्वानवहताः गुडवर्जितमैक्षवं कृष्णतिलमुद्गकलायकन्दविशेषनारिकेळकदळीलवलीपनसाम्रामलकाकसामुद्रलवणानु - द्भुतसारगव्यपिप्पलीजीरकनारङ्गादीनि ॥ 'वकुल-अ. 'तिलतैलाक्तैः इत्यधिकः-अ. भक्तल-अ.

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247