________________
१७१
प्रौढोल्लासः चतुर्थ:-श्यामाक्रमः साम्राज्याय । मुष्टिमितैः लाजैः कन्यायै । नन्द्यावतैः कवित्वाय । 'वजुळमल्लिकाजातीपुन्नागैः भाग्याय । बन्धूकजपाकिंशुकमधूकैः ऐश्वर्याय । कदम्बैः वश्याय । लवणैः शुक्तिप्रमाणैः आकर्षणाय । शालितण्डुलैः अर्धमुष्टिमितैः धान्याय । कुङ्कुमगोरोचनादिभिः गुञ्जामितैः सौभाग्याय । पलाशपुष्पैः तेजसे कपिलाघृतेन चोक्तमानेन। धुत्तूरकुसुमैरुन्मादाय । विषवृक्षनिम्बश्लेप्मातकविभीतकसमिद्भिः दशाङ्गुलप्रमाणाभिः शत्रुनाशाय । निम्बतैलाक्तैः लवणैः उक्तमानैः मारणाय । काकोलूकपक्षेणैकैकेन विद्वेषणाय । तिलतैलाक्तैः मरीचैः विंशत्या कासश्वासप्रशमनाय इति । पुष्पेषु स्थूलमेकैकं, अल्पानि द्वित्रीणि इति वा विवेकः । एतानि द्रव्याणि काम्यजपाङ्गेषु होमेषु तत्तज्जपदशांशसङ्ख्याकानि । प्राधान्येन होमे तु सङ्ख्याऽनुक्तौ सहस्रसङ्ख्याकानि । इह च प्रथमं अभीष्टदेवतायै विज्ञाप्य अमुककर्मसिद्धयर्थं एतावदाहुतीः करिष्यामीति सङ्कल्पयेत् । कर्षस्तु दशगुञ्जामितमाषषोडशकप्रमाणः । शुक्तिः कर्षद्वयम् । मुष्टिस्तु पलम् ॥
पुरश्चरणकाले विहितानि । मनःस्थैर्यशौचमौनमन्त्रार्थचिन्तननिर्वेदश्रद्धोत्साहक्रोधाभावसन्तोषेन्द्रियनिग्रह - ब्रह्मचर्यगुरुप्रणतिसुगन्धामलकस्नानसुवसनसुरभिळानुलेपनमध्यपत्रवर्जपलाशपत्रावलिमितैकवारभोजनप्रक्षाळितदर्भास्तीर्णधौतवस्त्रशयनत्रिषवणस्नानादीनि । अशक्तौ तु प्रातःखानमात्रम् ॥
निषिद्धानि अप्रियानृतभाषणकरञ्जविभीतकार्कस्नुहिछायाक्रमणप्रतिग्रहादीक्षितस्त्रीशुद्धपति - तनास्तिकसंभाषणबढेकमलिनवस्त्रधारणकाम्यकर्माविहितकर्मकांस्यभोजनासत्सङ्गोप्णजल - खानकञ्चुकोष्णीषधारणप्राणिहिंसापादुकायानशय्याऽऽरोहणनमत्वकुशरहितकरत्वादीनि अतिभोजनं च ॥
भोज्यानि शुक्लैकविधान्नं हैमन्तनीवारककुषष्टिका यवाः शूद्वानवहताः गुडवर्जितमैक्षवं कृष्णतिलमुद्गकलायकन्दविशेषनारिकेळकदळीलवलीपनसाम्रामलकाकसामुद्रलवणानु - द्भुतसारगव्यपिप्पलीजीरकनारङ्गादीनि ॥
'वकुल-अ. 'तिलतैलाक्तैः इत्यधिकः-अ. भक्तल-अ.