________________
नित्योत्सव :
होमे इतिकर्तव्यताविशेषः
बहु-ऋत्विक्कर्तृके होमे यथाकालं प्रत्याहुत्युद्देशत्यागयोः कर्तुमशक्यत्वात् यजमानो देवतां द्रव्यं च मनसा ध्यात्वा अमुकदेवताया इदं सर्वहोमद्रव्यजातं न ममेति त्यजेत् ॥
ऋत्विजस्त्वाचान्ताः कृतप्राणायामाः प्रत्येकं देशकालौ सङ्कीर्त्य अमुकेन वृतोऽहं अमुकसङ्ख्याकहोममध्ये अमुकांशेन यजमानोपकल्पितामुकद्रव्येण होमं करिष्ये इति सङ्कल्प्य आसनविधिं भूतशुद्ध्यादिकं तत्तद्देवतर्ण्यादिन्यासत्रयं कृत्वा अग्नौ देवताध्यानमानसपूजाऽन्ते प्राङ्मुखा वोदङ्मुखा वा जुहुयुः । होमसङ्ख्यासमाप्तौ परिधिपरिस्तरणान्तःपतितं हविः सर्वमग्नौ प्रक्षिपेत् । तद्बहिः पतितं तु न ॥
१७०
अनेकदिनसाध्ये तु होमे प्रतिदिवस कयाचित् सङ्ख्यया संस्थाप्य वह्निरक्षणपूर्वकं शुभदिने समाप्तिं कुर्यात् । प्रतिदिनं होमाद्यन्तयोः प्रधानदेवतां अङ्गदेवताश्च गन्धपुष्पादिभिः अग्निमध्ये पूजयेत् । आरम्भे समाप्तिदिने अग्निमूलमन्त्रेण स्वाहास्वधासहितमग्निं पूजयेत् । तत्र गन्धादिकं बहिरेव अग्नये दद्यात् ॥
यत्र होम एव प्रयोगविशेषे फलप्रदत्वात् प्रधानं न पुनर्जपाङ्गं तत्र ब्राह्मणभोजनसङ्ख्या तन्त्रे विशेषानुक्तौ स्मृत्युक्ता ग्राह्या । तत्र लक्षहोमे षष्ट्यधिका नवशती मुख्यः पक्षः । विंशत्यधिका पञ्चशती मध्यमः । दशाधिका त्रिशती
अधमः ॥
यत्र प्रधानदेवताऽङ्गत्वेन स्मृतितन्त्रोक्तयोरविरोधे समुच्चयपक्षमाश्रित्य ग्रहा अपि पूज्यन्ते तत्र तदङ्गब्राह्मणभोजनमपि कार्यम् । तत्रोत्तमे पक्षे विंशत्यधिका सप्तशती ब्राह्मणानां भोजनीया । मध्यमपक्षे चत्वारिंशदुत्तरं शतत्रयम् । अध च दशाधिकं शतमिति ॥
.
काम्यहमद्रव्याणां मानं फलं च
तिलैश्चुळुकमितैः शतसङ्ख्याकैर्वा प्रत्याहुतिहोमः शान्त्यै, आज्येन च कर्षप्रमाणेन । ग्रासमितैरन्नैरन्नाय । अमृतासमिद्भिः कनिष्ठास्थूलाभिः चतुरङ्गुलप्रमाणाभिः ज्वरोपशमनाय चूतपल्लवैश्च । दूर्वाभिः तिसृभिस्तिसृभिरायुषे । कृतमालकुसुमैः धनाय । उत्पलैः भोगाय । बिल्वदलैः राज्याय । समत्रैः पद्मः