________________
१६९
प्रौढोल्लासः चतुर्थः-श्यामाक्रमः आदित्ये तु भवेच्छोको बुधे चैव धनागमः । शुक्रे लाभं विजानीयाच्छनौ पीडा न संशयः ॥ चन्द्रे लाभो महान् देवि भौमे चैव तु बन्धनम् । गुरुणा च धनप्राप्तिः राहौ हानिस्तथैव च ॥ केतुना जायते मृत्युः फलमेवं महेश्वरि ।
क्रूरहोमस्तथा देवि क्रूरग्रहमुखो भवेत् ॥ इति ।। सूर्यभं सूर्याक्रान्तं नक्षत्र, चन्द्रभं तद्दिवसनक्षत्रम् । दापयेत् सूर्यादिभ्यः इति शेषः । मूर्यनक्षत्रादिचन्द्रनक्षत्रपर्यन्तं नक्षत्राणां त्रयं त्रयं सूर्यादिस्वामिकमित्यर्थः । करहोमो मारणोच्चाटनादिफलकः । शेषं सुगमम् । एवं वह्निस्थितिं ग्रहांश्च विचार्य, सौम्यहोमः सौम्यग्रहेषु क्रुरश्च क्रूरग्रहेषु कार्यः ।।
कुण्डस्थण्डिलयो:परिमाणम् तत्र एकोनपञ्चाशत्सङ्ख्याकाहुतिपर्यन्तं स्थण्डिलमेव । तच्च अष्टादशाङ्गुलप्रमाणं परितः अङ्गुष्ठोन्नतम् । अग्रे कुण्डेन सह विकल्पोऽशक्तिशक्तिभ्यां व्यवस्थितिः । पञ्चाशदादिनवनवतिसङ्ख्याहुतिपर्यन्तं मुष्टिमात्रम् । मुष्टिः अरनिः । शतादिनवनवत्यधिकनवशत्याहुतिपर्यन्तं अरनिमितम् । निप्कनिष्ठमुष्टिईस्तोऽरनिः । सहस्रादिहोमे हस्तमात्रम् । अयुतादौ द्विहस्तम् । लक्षादौ चतुर्हस्तम् । दशलक्षादौ पड्ढम्तम् । कोटिहोमादौ अष्टहस्तं दशहस्तं वा । चतुर्विंशत्यगुलैः हस्तः । अङ्गुलं तु तिर्यनिहिताष्टयवप्रमाणं स्वमध्यमामध्यपर्वमितं वा ज्ञेयम् । मुष्टया वा चतुरङ्गुलानि । अर्धयवोनचतुस्त्रिंशताङ्गुलैः द्विहस्तम् । सार्धेकचत्वारिंशता त्रिहस्तम् । अष्टचत्वारिंशता चतुर्हस्तम् । पादोनचतुःपञ्चाशता पञ्चहस्तम् । पादोनैकोनषष्टया षड्ढस्तम् । सार्धत्रिषष्टया सप्तहस्तम् । अष्टषष्टया यवोनया अष्टहस्तम् । द्विसप्तत्या नवहस्तम् । षट्सप्तत्या दशहस्तं कुण्डं स्थण्डिलं वा भवति । कुण्डाङ्गानां व्यासखातनाभिकण्ठमेखलायोनीनां सम्यज्ज्ञान एव कुण्डं युक्तम् । अन्यथा अत्यन्तमनिष्टम् । स्थण्डिलं चतुरश्रमङ्गुलोत्सेधं चतुरङ्गुलोत्सेधं वा । स्थूलद्रव्यहोमे तत्तत्परिमाणम्यापर्याप्तौ स्वोत्तरपरिमाणमपि ग्राह्यम् ॥