Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 146
________________ श्रीक्षुल्लकभवावलिप्रकरणम् ૧૨૭ __ अवचूरिः - उक्तार्था । यदुक्तं (३,७७३) मितांशान्तर्गताः ये(१,३९५) मितांशाः सन्ति तत्कथं ज्ञेयम् ? इति चेदुच्यते - एकमुहूर्त्तक्षुल्लकभवाः (६५,५३६) मिताः । (३,७७३) मितैर्मुहूर्तोच्छ्वासैरेकोच्छ्वासक्षुल्लक भवानयनाय भागे दत्ते लब्धाः (१७) । शेषांशाः (१,३९५) मिताः स्थिताः । एतेऽशाः (३,७७३) मिताङ्केन (मुहूर्तोच्छ्वासैः) हृतत्वातद्भागरूपाः (३,७७३ मितमध्याश्रिताः) अंशा ज्ञेयाः । अथवा मुहूर्तक्षुल्लकभवानयनायोच्छ्वासक्षुल्लकभवाः (१७) मिता मुहूर्तोच्छ्वास(३,७७३) मिताङ्कगुणाः कृता जाताः (६४,१४१) मितास्तदंशा अपि (१,३९५) मिताः (३,७७३) मिताङ्कगुणाः कृता जाताः (५२,६३,३३५) मिताः । एभिरेव (३,७७३) मितैर्भवो भवत्यतोऽनेनैवाङ्केन हृता लब्धाः (१,३९५) मिताः । एते पूर्वराशौ (६४,१४१) रूपे क्षिप्यन्ते । जाताः (६५,५३६) मिता मुहूर्त्तभवाः । एतावता (३,७७३) मिताङ्केन हृतत्वादशा अपि तन्मिता ज्ञेयाः ॥ ५ ॥ अथ स्तोके क्षुल्लकभवानाहएगूसासस्स भवा, सत्तगुणा काउं तह य तस्संसा । सगतीससयतिहुत्तर-हरिया थोवस्स खुड्डागा ॥ ६ ॥ अवचूरिः - एकोच्छ्वासभवाः (१७) मिताः सप्तगुणाः कृता जाताः (११९) मितास्तथा तस्योच्छ्वासस्यांशाः (१,३९५) मिताः सप्तगुणाः कृता जाताः (९,७६५) मिताः । एते (३,७७३) मितैर्हता लब्धौ द्वौ, शेषांशाः (२,२१९) मितास्तिष्ठन्ति । (११९) मितपूर्वराशौ लब्धद्विकक्षेपे जातं (१२१) । एतावता जाता एकस्मिन् स्तोके क्षुल्लकभवाः (१२१) शेषांशाः (२,२१९) ॥ ६॥ उक्तार्थ(र्थे) गाथामाहअह थोवे खुड्डागा, इगसयमिगवीस सुअहरा बिंति । सेसंसा तत्थ इमे, बावीससया इगुणवीसा ॥ ७ ॥ ५.मा-१४-१०

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218