Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 168
________________ श्रीसिद्धदण्डिकास्तवः ૧૪૯ तृतीया यथा-ततः परमेकः सिद्धौ, चत्वारः सर्वार्थे, ततः सप्त सिद्धौ, दश सर्वार्थे | एवं त्र्युत्तरया च वृद्ध्या शिवे सर्वार्थे च क्रमेण तावद्वाच्यं यावदुभयत्रासङ्ख्येयाः स्युः ॥ ७ ॥ त्र्युत्तरसिद्धदण्डिकास्थापना सिद्धिगताः १ ७ १३ १९ २५ ३१ ३७ ४३ ४९ ५५ एवं यावदसङ्ख्या: सर्वार्थगताः १० १६ २२ २८ ३४ ४० ४६ ५२ ५८ एवं यावदसङ्ख्या: चतुर्थी विचित्रा तस्याः परिज्ञानार्थमयमुपायःविसमुत्तरसेढीए, हिट्टवरिं ठविअ अउणतीसतिआ । पढमे नत्थि क्खेवो, सेसेसु सया इमो खेवो ॥ ८ ॥ टि० इहैकोनत्रिंशत्त्रिका ऊर्ध्वाधः परिपाट्या पट्टिकादौ स्थाप्यन्ते । तत्र प्रथमे त्रिके न किञ्चित्प्रक्षिप्यते (शेषेषु त्रिकेषु सदाऽयं वक्ष्यमाण: क्षेपोऽवसेयः) ॥ ८ ॥ दुग पण नवगं तेरस, सतरस बावीस छच्च अट्ठेव । बारस चउदस तह अड - वीसा छव्वीस पणवीसा ॥ ९ ॥ एगारस तेवीसा, सीयाला सयरि सत्तहत्तरिआ । इग दुग सत्तासीई, इगहत्तरिमेव बासट्ठी ॥ १० ॥ अउणत्तरि चवीसा, छायाला तह सयं च छव्वीसा । मेलित्तु इगंतरिआ, सिद्धीए तह य सव्वट्ठे ॥ ११ ॥ टि० द्वितीये द्विकः, तृतीये पञ्च, चतुर्थे नव, पञ्चमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः, अष्टमे षट्, नवमेऽष्टौ, दशमे द्वादश, एकादशे चतुर्दश, द्वादशेऽष्टाविंशतिः, त्रयोदशे षड्विंशतिः, चतुर्दशे पञ्चविंशतिः,

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218