Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
श्रीलोकनालिद्वात्रिंशिका
तदाह
अडवीससय अडुत्तर, दससोला अट्ठतीसचउवीसा | इअ संवग्गियलोए, तिह रज्जू खंडुआ उ इमे ॥ २२ ॥
अवचूरिः - अधोलोकस्यैताः प्रतररज्जवः ७०२ चतुर्भिर्गुण्यन्ते जातमष्टाविंशतिशतान्यष्टोत्तराणि २,८०८ । ऊर्ध्वलोकस्यैताः प्रतररज्जवः २५४ चतुर्भिर्गुण्यन्ते जातं दशशतानि षोडशाधिकानि १,०१६ | अधऊर्ध्वलोकयोः सर्वसूचीरज्जुमीलने जातमष्टत्रिंशच्छतानि चतुर्विंशत्यधिकानि ३,८२४ । इति संवर्गितलोके त्रिधा घनप्रतरसूचीरज्जवो भवन्ति ॥२२॥ अधऊर्ध्वलोकयोः सर्वसूचीरज्जूनां खण्डुका इमे वक्ष्यमाणा भवन्ति ।
तान्याह
૧૯૩
-
एगारसहस दुसया, बत्तीसा चउरसहसचउसट्ठी । अह उड्डुं सव्वे पन - रससहस्सदुसयछन्नउआ ॥ २३ ॥
अवचूरि :- अधोलोकस्यैताः सूचीरज्जव: २,८०८ चतुर्भिर्गुण्यन्ते जातमेकादश सहस्राणि द्वे शते द्वात्रिंशदधिके ११,२३२ । ऊर्ध्वलोकस्यैताः सूचीरज्जवः १,०१६ चतुर्भिर्गुण्यन्ते जातं चत्वारि सहस्राणि चतुःषष्ट्यधिकानि ४,०६४ | अधऊर्ध्वलोकयोः खण्डुकानां मीलने जातं पञ्चदशसहस्राणि द्वे शते षण्णवत्यधिके १५,२९६ ॥ २३ ॥
अथाधऊर्ध्वलोकयोः खण्डुकसङ्ख्योत्पत्तिमाह
अड छ चउवीस वीसा, सोलस दस चउ अहुड्ढ चउ छ्ट्ठ । दस बार सोल वीसा सरिसंकगुणा उ चउहि गुणे ॥ २४ ॥
अवचूरिः - अष्टाविंशतिः षड्विंशतिश्चतुर्विंशतिर्विंशतिः षोडश दश चत्वारोऽधोलोके । तथोर्ध्वलोके चत्वारः षडष्टौ दश द्वादश षोडश विंशतिः सदृशाङ्कगुणाः स्वकस्वकाङ्कगुणिताः । तु पुनस्ते च चतुर्भिर्गुणिताः पूर्वोक्ताः सर्वखण्डुकाः स्युः । एतेऽङ्काः स्वकाङ्कगुणिता
Loading... Page Navigation 1 ... 210 211 212 213 214 215 216 217 218