SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीलोकनालिद्वात्रिंशिका तदाह अडवीससय अडुत्तर, दससोला अट्ठतीसचउवीसा | इअ संवग्गियलोए, तिह रज्जू खंडुआ उ इमे ॥ २२ ॥ अवचूरिः - अधोलोकस्यैताः प्रतररज्जवः ७०२ चतुर्भिर्गुण्यन्ते जातमष्टाविंशतिशतान्यष्टोत्तराणि २,८०८ । ऊर्ध्वलोकस्यैताः प्रतररज्जवः २५४ चतुर्भिर्गुण्यन्ते जातं दशशतानि षोडशाधिकानि १,०१६ | अधऊर्ध्वलोकयोः सर्वसूचीरज्जुमीलने जातमष्टत्रिंशच्छतानि चतुर्विंशत्यधिकानि ३,८२४ । इति संवर्गितलोके त्रिधा घनप्रतरसूचीरज्जवो भवन्ति ॥२२॥ अधऊर्ध्वलोकयोः सर्वसूचीरज्जूनां खण्डुका इमे वक्ष्यमाणा भवन्ति । तान्याह ૧૯૩ - एगारसहस दुसया, बत्तीसा चउरसहसचउसट्ठी । अह उड्डुं सव्वे पन - रससहस्सदुसयछन्नउआ ॥ २३ ॥ अवचूरि :- अधोलोकस्यैताः सूचीरज्जव: २,८०८ चतुर्भिर्गुण्यन्ते जातमेकादश सहस्राणि द्वे शते द्वात्रिंशदधिके ११,२३२ । ऊर्ध्वलोकस्यैताः सूचीरज्जवः १,०१६ चतुर्भिर्गुण्यन्ते जातं चत्वारि सहस्राणि चतुःषष्ट्यधिकानि ४,०६४ | अधऊर्ध्वलोकयोः खण्डुकानां मीलने जातं पञ्चदशसहस्राणि द्वे शते षण्णवत्यधिके १५,२९६ ॥ २३ ॥ अथाधऊर्ध्वलोकयोः खण्डुकसङ्ख्योत्पत्तिमाह अड छ चउवीस वीसा, सोलस दस चउ अहुड्ढ चउ छ्ट्ठ । दस बार सोल वीसा सरिसंकगुणा उ चउहि गुणे ॥ २४ ॥ अवचूरिः - अष्टाविंशतिः षड्विंशतिश्चतुर्विंशतिर्विंशतिः षोडश दश चत्वारोऽधोलोके । तथोर्ध्वलोके चत्वारः षडष्टौ दश द्वादश षोडश विंशतिः सदृशाङ्कगुणाः स्वकस्वकाङ्कगुणिताः । तु पुनस्ते च चतुर्भिर्गुणिताः पूर्वोक्ताः सर्वखण्डुकाः स्युः । एतेऽङ्काः स्वकाङ्कगुणिता
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy