Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
૧૯૬
श्रीलोकनालिद्वात्रिंशिका अवचूरिः - सप्तवर्गे सप्तगुणिते, तथा सप्तवर्गे चतुष्कगुणिते, सप्तवर्गे त्रिकगुणिते च, "उभय"त्ति अधऊर्ध्वलोकस्य ३४३, अधोलोकस्य १९६, ऊर्ध्वलोकस्य च १४७ अनुक्रमेण घनरज्जवो ३४३ भवन्ति । अधऊर्ध्वघनलोकयोः पृथक् पृथक् घनरज्जव १९६।१४७ श्चतुष्केण गुण्यन्ते घनलोकप्रतररज्जवः स्युः । घनलोकप्रतररज्जव: पुनश्चतुष्केण गुण्यन्ते घनलोकसूचीरज्जवः स्युः । घनलोकसूचीरज्जव: पुनश्चतुष्केण गुण्यन्ते घनलोकखण्डुकाः स्युः ॥ ३० ॥
अधोघनलोकस्य प्रतररज्जूराहसगचुलसी पणअडसी, इगतीसछतीस तिविसबावण्णा । पणचउआलजुआ बार-सहस चउणउअसयट्ठहिआ ॥ ३१ ॥
अवचूरिः - अधोलोकघनलोकस्य घनरज्जव १९६ श्चतुभिर्गुण्यन्ते जातम् ७८४, अधोलोके एतावत्यः प्रतररज्जवः स्युः । अथोर्ध्वलोकघनलोकस्य प्रतररज्जूराह - "पणअडसी"त्ति ऊर्ध्वलोकघनलोकस्यैता घनरज्जव १४७ श्चतुर्भिर्गुण्यन्ते जातं ५८८ । एतावत्य ऊर्ध्वलोके प्रतररज्जवः स्युः । अथाधोलोकघनलोकस्य सूचीरज्जूराह- "इगतीसछतीसत्ति" अधोलोकघनलोकप्रतररज्जव ७८४ श्चतुर्भिर्गुण्यन्ते, जातं ३,१३६, एतावत्यः सूचीरज्जवोऽधोलोके स्युः । ऊर्ध्वलोकघनलोकस्य सूचीरज्जूराह-"तिविसबावण्ण"त्ति ऊर्ध्वलोकघनलोकस्यैताः प्रतररज्जव ५८८ श्चतुर्भिर्गुण्यन्ते जातं २,३५२ । एतावत्यः सूचीरज्जव ऊर्ध्वलोके स्युः । अथाधोलोकघनलोकस्य खण्डुकानाह- "पणचउआलजुआ बारसहस"त्ति अधोलोकघनलोकस्यैताः सूचीरज्जव ३,१३६ श्चतुर्भिर्गुण्यन्ते जातं १२,५४४ । एतावन्तः खण्डुका अधोलोके स्युः । ऊर्ध्वलोकघनलोकस्य खण्डुकानाह-"चउणउअसयहिअ"त्ति ऊर्ध्वलोकघनलोकस्यैताः सूचीरज्जवश्चतुर्भिर्गुण्यन्ते जातं ९,४०८ । एतावन्त ऊर्ध्वलोके खण्डुकाः स्युः ॥ ३१ ॥
Loading... Page Navigation 1 ... 213 214 215 216 217 218