Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
૧૯૫
श्रीलोकनालिद्वात्रिंशिका ___ अवचूरिः - तु पुनरधस्तादधोलोके त्रसनाडीतो वामखण्डमुत्पाट्य विपरीतं कृत्वा दक्षिणपार्श्वे स्थापय । तत उपरितनं त्रिरज्जुमानं खण्डं समुत्पाट्य वामे पार्श्वे सन्धय(न्धेहि) । एतावता सर्वतः समत्वादेष घनलोको जातः । अधऊर्ध्वसप्तरज्जुप्रमाणः पूर्वापरयोदक्षिणोत्तरयोश्च सप्तरज्जुप्रमाणः सर्वत्र समो घनलोकः ॥ २७ ॥ इअ संवट्टणलोगो, बुद्धिकओ सत्तरज्जुमाणघणो । सगरज्जु अहिअ हिट्ठा, गिह्निअ पासाइँ पूरिज्जा ॥ २८ ॥ ___ अवचूरिः - इत्यमुना प्रकारेण संवर्तनलोकः (स्व)बुद्धिकृतः स्वबुद्धिकल्पितः सप्तरज्जुमान एष घनलोक उच्यते । तथाऽधस्ताद्यत्र सप्तरज्जुभ्यो यदधिकं खण्डं तद्गृहीत्वा पार्थानि पूरयेत् । यत्र कुत्रापि पार्श्वे ऊनं स्यात्तदधिकं खण्डं तत्र दत्त्वा तत्पार्थं पूरयेदित्यर्थः ।। २८ ॥
तथाऽस्मिन्धनलोके कियत्यो घनरज्जवः ? कियत्यः प्रतररज्जवः ? कियत्यः सूचीरज्जवः ? कियन्ति खण्डुकानि ? इत्याह
घणरज्जु तिसयतेआ-ल तेरबावत्तरा पयरसूई । चउपन्नअडसि खंडुअ, सहसिगवीसा नवदुपण्णा ॥ २९ ॥
अवचूरिः - अस्मिन्घनलोके घनरज्जुप्रमाणं त्रीणि शतानि त्रिचत्वारिंशदधिकानि ३४३ । प्रतररज्जुप्रमाणं त्रयोदश शतानि द्विसप्तत्यधिकानि १,३७२ । सूचीरज्जुप्रमाणं चतुःपञ्चाशच्छतान्यष्टाशीत्यधिकानि ५,४८८ । घनलोकखण्डुकप्रमाणमेकविंशतिसहस्राणि नव शतानि द्विपञ्चाशदधिकानि २१,९५२ स्युः ॥ २९ ॥
अथ घनरज्ज्वादीनामुत्पत्तिमाहसगवग्गे सगचउतिग-गुणिए उभय अह उड्ड खंडघणा । छन्नउअसयसीयाल, चउगुणिए पयरसुइअंसा ॥ ३० ॥
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218