Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
૧૯૪
श्रीलोकनालिद्वात्रिंशिका
यथाक्रमं जाताः ।७८४।६७६।५७६।४०० २५६।१००।१६। एतेऽङ्का मीलिता जातम् २,८०८ । एते पुनश्चतुर्भिर्गुण्यन्ते जातं ११,२३२ अधोलोक - खण्डुकाः स्युः । ऊर्ध्वलोके यथाक्रमं अङ्का गुणिता जातम् ।१६।३६। ६४।१००।१४४।२५६।४००। एतेषां मीलने जातम् १,०१६ । एते पुनश्चतुर्भिर्गुण्यन्ते जातम् ४,०६४ ऊर्ध्वलोके खण्डुकाः स्युः ॥ २४ ॥
ग्रन्थकार एतदेव स्पष्टीकरणाय भेदान्तरेणाह -
चउ अडवीसा छप्पण्ण, पयरसरिसंकगुणिअ पिहु मिलिए । समदीहपिहुव्वेहा, उड्डमहो खंडुआ नेया ॥ २५ ॥
अवचूरि: - चतु:खण्ड श्रेणिलोकशिरःस्था ज्ञेया । अष्टाविंशति खण्डप्रमाणा श्रेणिर्लोकस्याधस्ताज्ज्ञेया । षट्पञ्चाशत्प्रमाणाः प्रतरखण्डुक श्रेणयस्तिर्यग्ज्ञेया । ऊर्ध्वलोके चतुष्कादयश्चतुष्कान्ताः । अधोलोके त्वष्टाविशत्यादयश्चतुष्कान्तास्त्रिका : (ता: । एते ) षट्पञ्चाशत्प्रतरसदृशाङ्कगुणिताः पृथक् पृथग् मीलिताः सन्तः समदीर्घपृथुलोद्वेधाः खण्डुका ऊर्ध्वलोकेधोलोके ज्ञेयाः । अस्या भावना प्रागेवोक्तास्ति ॥ २५ ॥
अथ घनलोककरणोपायमाह
दाहिणपासि दुखंडा, उड्डुं वामे ठविज्ज विवरीआ । नाडीसहिअतिरज्जू, पिहु जाया सत्त दीहुच्चे ॥ २६ ॥
अवचूरिः - ऊर्ध्वलोके त्रसनाडीतो दक्षिणपार्श्वे द्वे खण्डे ये ते विपरीते कृत्वा वामे पार्श्वे स्थापय । अयम्भावः समे द्वे खण्डे दक्षिणपार्श्वादुत्पाट्य विपरीते कृत्वाऽधस्तनं खण्डमुपरि स्थाप्यते, उपरितनं खण्डमधः स्थाप्यते । नाडीसहितत्रिरज्जव: पृथुत्वे जाताः । दीर्घत्वे
I
सप्तरज्जवः ॥ २६ ॥
-
हिट्टा उ वामखंडं, दाहिणपासे ठविज्ज विवरीअं । उवरिमतिरज्जुखंडं, वामे ठाणे अहो दिज्जा ॥ २७ ॥
Loading... Page Navigation 1 ... 211 212 213 214 215 216 217 218