Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
૧૯૨
श्रीलोकनालिद्वात्रिंशिका षोडशानां वर्गः षट्पञ्चाशदधिके द्वे शते २५६ । एवं द्वितीयषोडशकस्यापि । उभयोर्मीलने जातम् ५१२ । विंशतेर्वर्गश्चत्वारि शतानि । एवं चतुष्क(विंशति)त्रयेऽपि । सर्वेषां मीलने जातम् १,६०० । षोडशकस्य वर्गो द्वे शते षट्पञ्चाशदधिके । द्वितीयषोडशकस्याप्येवम् । उभयोर्मीलने जातम् ५१२ । द्वादशकस्य वर्गश्चतुश्चत्वारिंशच्छतम् । द्वितीयद्वादशकस्याप्येवम् । उभयोर्मीलने जातम् २८८ । दशकस्य वर्गः शतं १०० । एवं दशकयुग्मस्यापि । सर्वेषां मीलने जातं ३०० । अष्टकस्य वर्गश्चतुःषष्टिः । अष्टकयुग्मस्याप्येवम् । सर्वेषां मीलने १९२ । षट्कस्य वर्गः षट्त्रिंशत् । एवं द्वितीयषट्कस्यापि । उभयोर्मीलने जातम् ७२ । चतुष्कस्य वर्गः षोडश । द्वितीयचतुष्कस्याप्येवम् । उभयोर्मीलने जातम् ३२ । सर्वेषामङ्कानां मीलने जातम् ४,०६४ । एतेषां चतुर्भिर्भागे हृते लब्धाः सूचीरज्जव: १,०१६ । पुनरेषां चतुभिर्भागे हृते लब्धाः प्रतररज्जवः २५४ । पुनरेषां चतुभिर्भागे हृते लब्धं घनरज्जूनां सार्द्धत्रिषष्टिः ६३-२। अधऊर्ध्वलोकघनरज्जूनां मीलने जातमेकोनचत्वारिंशदधिके द्वे शते २३९ ॥ २० ॥
अथाधऊर्ध्वलोकयोः सर्वप्रतरसङ्ख्यामाहचउगुणिअ पयररज्जू, सत्तदुरुत्तरय दुसयचउपण्णा । अह उड्ड नव छपन्ना, सव्वे चउगुणिअ सुइरज्जू ॥ २१ ॥
अवचूरिः - "चगुणिअ पयररज्जू" सर्वा घनरज्जवश्चतुर्गुणिताः प्रतररज्जवः स्युः । प्रथममधोलोकस्यैता घनरज्जवः १७५ द्वौ भागौ च २ चतुभिर्गुण्यन्ते जातं व्युत्तराणि सप्तशतानि ७०२ । ऊर्ध्वलोकस्यैता घनरज्जव: ६३ द्वौ भागौ च २ चतुभिर्गुण्यन्ते जातं द्वे शते चतुःपञ्चाशदधिके २५४ । अधऊर्ध्वलोकयोः सर्वप्रतररज्जुमीलने जातं नवशतानि षट्पञ्चाशदधिकानि ९५६ । अधऊर्ध्वलोकयोः सर्वसूचीरज्जुकरणायाह"चउगुणिय सुइरज्जू" सर्वाः प्रतररज्जवश्चतुर्गुणिताः सूचीरज्जव: स्युः ॥ २१ ॥
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218