Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 209
________________ ૧૯૦ श्रीलोकनालिद्वात्रिंशिका अधोलोकोर्ध्वलोकयोरेकप्रदेशेन पृथक् पृथक् सूचीरज्जुसङ्ख्यामाहअडवीससयं छसयरि, अह उड्ढं चउजुआ दुसय सव्वे । सुइरज्जु पयररज्जू, दुतीस गुणवीस इगवन्ना ॥ १८ ॥ अवचूरिः - प्रागुक्तासु सप्तसु पृथिवीषु ।२८।२६।२४।२०।१६।१०।४। रूपाः सङ्ख्या मीलिताः ५१२ । सा सङ्ख्या चतुष्कविभक्ता जातमष्टाविंशत्यधिकं शतं (१२८) अधोलोके सूचीरज्जव: स्युः । "छसयरि"त्ति ऊर्ध्वलोकखण्डुकसङ्ख्या ३०४ चतुष्कविभक्ता जातं षट्सप्ततिः (७६) सूचीरज्जव ऊर्ध्वलोके स्युः । “चउजुया दुसय सव्वे"त्ति अधऊर्ध्वलोकयोरङ्के मीलिते ।१२८।७६। जातं द्वे शते चतुर्युक्ते (२०४) सर्वसूचीरज्जवः स्युः । “पयररज्जु"त्ति अधऊर्ध्वलोकयोः सूचीरज्जवश्चतुष्कविभक्ताः प्रतररज्जवः स्युः । तथाऽधोलोकस्यैताः सूचीरज्जव: १२८ चतुर्भिर्भज्यन्ते लब्धम् ३२ । तथोर्ध्वलोकस्यैताः सूचीरज्जवः ७६ चतुर्भिर्भज्यन्ते लब्धम् १९ । "इगवन्न'त्ति अधऊर्ध्वलोकयोरङ्के मीलिते जातं ५१ प्रतररज्जवः स्युः ॥ १८ ॥ अथाधऊर्ध्वलोकयोरेकप्रदेशेन घनरज्जुमाहघणरज्जु अट्ठ हिट्ठा, पउणपणुढे उभे पउणतेर । घणपयरसूइरज्जू, खंडुअ चउसट्टि सोल चउ ॥ १९ ॥ अवचूरिः - अधोलोकस्यैताः प्रतररज्जव ३२ श्चतुभिर्भागे हृते लब्धमष्टौ घनरज्जवोऽधोलोके स्युः। “पउणपणुड्ढ''ति ऊर्ध्वलोकस्यैताः प्रतररज्जवः १९, चतुर्भिर्भागो ह्रियते, लब्धं पादोनपञ्चरज्जव ऊर्ध्वलोके स्युः । “उभे''त्ति अधऊर्ध्वलोकघनरज्जुमीलने जातं पादोनत्रयोदशरज्जवः स्युः । अथ घनरज्ज्वादीनां प्रमाणमाह-“घणपयरसूइरज्जू" घनरज्जुश्चतुःषष्ट्या खण्डुकैः स्यात् । प्रतररज्जुः षोडशखण्डुकैः स्यात् । सूचीरज्जुश्चतुभिः खण्डुकैः स्यात् ॥ १९ ॥

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218