Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 208
________________ श्रीलोकनालिद्वात्रिंशिका अपरग्रन्थोक्तां सम्मतिमाह भणितं च- सोहम्मंमि दिवड्ढा, अड्डाइज्जा य रज्जु माहिंदे । चत्तारि सहस्सारे, पणऽच्चुए सत्त लोगंते ॥ १५ ॥ ( गाथासहस्त्री - २८१ ) अवचूरिः "सोहम्मंमि" सौधर्मदेवलोके द्व्यर्द्धा रज्जुः । माहेन्द्रेऽर्द्धतृतीया रज्जुः । चतस्रो रज्जवः सहस्रारे । अच्युते पञ्च रज्जव: । लोकान्ते सप्त रज्जवः स्युः ॥ १५ ॥ ૧૮૯ तथागमेऽप्युक्तम् तथा चागमे - सम्मत्तचरणसहिआ, सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभाए, पंच य सुअ देसविरई ॥ १६ ॥ ( आवश्यक निर्युक्तिः ८५९ ) अवचूरि: सम्यक्त्वचारित्रसहिता जीवाः, एतावता केवलिनः समुद्घातवेलायां सर्वं लोकं निर्विशेषं निर्विभागं सर्वात्मप्रदेशैः स्पृशन्ति । "सत्त यत्ति" श्रुतविरत्या जीवा एतावता सम्पूर्ण श्रुतकेवलिनश्चतुर्दशपूर्वधराः, तथा देशविरत्या जीवाः श्राद्धाश्चानुक्रमेण चतुर्द्दशधा विभक्तस्य लोकस्य सप्त भागान् पञ्च भागान् स्पृशन्ति ॥ १६ ॥ अथैकप्रदेशेन सप्तसु पृथिवीषु सूचीरज्जुसङ्ख्यामाहअडवीसा छव्वीसा, चउवीसा वीस सोल दस चउरो । सुइरज्जु सत्तपुढवीसु, चउचउभइआ उ पयर घणा ॥ १७ ॥ - अवचूरि :- सप्तषट्पञ्चचतसृतिसृद्व्येकासु पृथ्वीषु यथानुक्रमेणाष्टाविंशति: २८ षड्विंशति: २६ चतुर्विंशति: २४ विंशति: २० षोडश १६ दश १० चतस्रः ४ सूचीरज्जवः स्युः । ताः सूचीरज्जवश्चतुष्कविभक्ताः प्रतररज्जवः स्युः । ताः प्रतररज्जवश्चतुष्कविभक्ता घनरज्जवः स्युः ॥ १७॥ १. पंचेव सहस्सारे, छअच्चुए सत्त लोगंते ॥ २१८ ॥ इति बृहत्सङ्ग्रहण्यां पाठः । २. औपचारिकसर्वतानिरासाय निरवशेषमिति लोकान्तनिष्कुटेष्वपि व्याप्तास्तत्प्रदेशा इति । ३. सहार्थे इत्यत्र गम्यमानेपि सहादौ तृतीयेति सहिता इति ज्ञेयं शेषतया । —

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218