Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
श्रीलोकनालिद्वात्रिंशिका
૧૮૭ अवचूरिः - लोकमध्यादवतीर्य सप्तसु नरकपृथ्वीषु, चतुर्षु चतुर्यु स्थानेष्वनुक्रमेण चत्वारो दश षोडश विंशतिश्चतुर्विंशतिः षड्विशतिरष्टाविंशतिः खण्डुकाः स्युः ॥ ९ ॥
अथाधोलोकखण्डुकसङ्ख्यामाहअह पणसयबारुत्तर, खंडुअ सोलहिअ अट्ठसय सव्वे । घम्माइ लोगमज्झं, जोयणअस्संखकोडीहिं ॥ १० ॥
अवचूरिः - अधोलोकखण्डुका अनुक्रमेण मीलिताः १६।४०।६४। ८०।९६।१०४।११२। सर्वसङ्ख्यया पञ्चशतानि द्वादशाधिकानि (५१२) स्युः । ऊर्ध्वाधोलोकस्य सर्वखण्डुकसङ्ख्यामाह- "सोलहिअ अट्ठसय सव्वेत्ति" ऊर्ध्वलोकस्य (३०४), अधोलोकस्य (५१२), एते सर्वे मीलिताः षोडशाधिकान्यष्टौ शतानि (८१६) स्युः । “घम्माइ०" घर्मायां रत्नप्रभायामसङ्ख्यातयोजनकोटीभिर्लोकमध्यं स्यान्नैश्चयिकमतेन । परं वै(व्या)वहारिकमतेन मेरुकन्दमध्येऽष्टप्रदेशिकरुचकाल्लोकमध्यं स्यात् ॥ १० ॥
अथाधोलोकतिर्यग्लोकोर्ध्वलोकप्रमाणमाहसगरज्जु जोयणसया-ट्ठारस ऊणसगरज्जुमाण इहं । अहतिरिअउड्ढलोआ, निरयनरसुराइभावुल्ला ॥ ११ ॥
अवचूरिः - सप्त रज्जवः योजनानामष्टादश शतानि योजनानामष्टादशशतोनसप्तरज्जुमानम् । इहाधोलोकतिर्यग्लोकोर्ध्वलोकाः स्युः । इदं प्रमाणमुच्चत्वे ज्ञेयं न तिर्यग् । कथम्भूता लोकाः ? नरकनरसुरादिभावयुक्ताः ॥ ११ ॥
अथाधोलोकस्वरूपमाहअहलोइ निरयअसुरा, वंतरनरतिरिअजोइसतरुग्गी । दीवुदही तिरिलोए, सुरसिद्धा उड्ढलोअंमि ॥ १२ ॥
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218