Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 204
________________ श्रीलोकनालिद्वात्रिंशिका ૧૮૫ केणवि न कओ न धओऽणाहारो नहठिओ सयंसिद्धो । अहमुहमहमल्लगठिअ - लहुमल्लगसंपुडसरिच्छो ॥ ३ ॥ अवचूरि: - पुनः किंविशिष्टो लोकः ? न केनापि कृतः । न केनापि धृत: । अनाधार आधाररहित: । नभः स्थितः । स्वयंसिद्धः । अधोमुखमहामल्लकेऽधोमुखमहाशरावे स्थितलघुमल्लकसंपुटसदृक्षो लघुशरावसम्पुटयुग्मसदृक्षः ॥ ३ ॥ पयतलि सग मज्झेगा, पण कुप्परि सिरतलेगरज्जुपिहू । सो चउदसरज्जुच्चो, माघवइतलाओ जा सिद्धी ॥ ४ ॥ अवचूरि: - पुरुषाकृतिलोकः पदतले सप्तरज्जुपृथुः । मध्ये एकज्जुपृथुः । कूर्परके पञ्चरज्जुपृथुः । शिरस्तले एकरज्जुपृथुः । एतत्तिर्यक्प्रमाणं ज्ञेयम् । स लोक एवं चतुर्द्दशरज्जूच्चः स्यात् । माघवतीतलात्सप्तमनरकपृथिवीतलाद्यावत्सिद्धिः ॥ ४ ॥ सगरज्जु मघवइतला, पएसहाणीइ महिअले एगा । तो वुड्ढि बंभ (भ) जा पण, पुण हाणी जा सिवे एगा ॥ ५ अवचूरि:- स लोको माघवतीतले सप्तरज्जुपृथुः । ततो माघवती - तलात्क्रमेण प्रदेशहान्या महीतले रत्नप्रभामहीतले एकरज्जुपृथुः । ततो रत्नप्रभापृथ्वीतलात्प्रदेशवृद्धिस्तावज्ज्ञेया यावद्ब्रह्मदेवलोकस्तत्र पञ्चरज्जुपृथुः । पुनर्ब्रह्मदेवलोकात्तावत्प्रदेशहानिर्ज्ञेया यावन्मोक्षस्तत्रैकरज्जुपृथुः ॥ ५ ॥ सगवन्नरेह तिरिअं, ठवसु पणुड्ढं च रज्जु चउअंसे । इगरज्जुवित्थरायय, चउदसरज्जुच्च तसनाडी ॥ ६ ॥ अवचूरि : - सप्तपञ्चाशद्रेखास्तिर्यक् स्थापय लिख । पञ्च रेखा ऊर्ध्वं च स्थापय । चतुरंशेऽशचतुष्के रज्जुर्ज्ञेया । अंशशब्देन खण्डुको ज्ञेयः । एषा त्रसनाडी पृथुलत्वे एकरज्जुविस्तीर्णा आयते दीर्घे

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218