Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 180
________________ श्रीयोनिस्तवः ૧ ૬ ૧ ॥ प्रस्तावना ॥ प्रकरणकारैः श्रीमद्धर्मघोषसूरिभिरात्मनः स्मरणार्थं भव्यप्राणिनामुपकाराय च श्रीमज्जिनागमादुद्धृत्य आसन्नोपकारिचरमतीर्थाधिराजश्रीमन्महावीरजिनविज्ञप्तिगभितं इदं योनिस्तवाभिधानं प्रकरणं विनिर्मितम् । अस्मिन्प्रकरणे सुरनारकयोरचित्तयोनिनिर्णयः, संज्ञितिर्यग्मनुष्याणां सचित्ताचित्तयोनिप्रकाशनम्, विकलेन्द्रियासंज्ञितिर्यङ्मनुष्यैकेन्द्रियाणां सचित्ताचित्तमिश्रयोनिनिश्चयः, शीतोष्णमिश्रयोनिनिरूपणम्, संवृतविवृतयोनिस्वरूपशंसनम्, कूर्मशङ्खावर्तादियोनिप्रकटनम्, जीवानां मूर्छनाद्यष्टविधयोनिप्रदर्शनम्, चतुरशीतियोनिसङ्ख्याकथनम्, सर्वजीवानां कुलकोटीनां सङ्ख्यासंकलनम्, इत्येते विषयाः प्रकरणकारैः प्रदर्शिताः सन्ति । इदं प्रकरणं केन कदा प्रणीतम्, एतद्विषयनिर्णयस्तु श्रीलोकनालिद्वात्रिंशिकायाः प्रस्तावनातोऽवलोकनीयः । अस्य चैकं पुस्तकं परमगुरुप्रवर्तक-श्रीमत्कान्तिविजयपादानामभ्यर्णत आसादितम्, द्वितीयं पुनः श्रीयुतपन्यास-श्रीमद्दानविजयमुनिवराणां सकाशतः सम्प्राप्तम् । एतत्पुस्तक द्वितयीनिरीक्षणेन मया शोधितम्, अत्र च, यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र कृपालुहृदयैः संशोधनीयं धीधनैरित्यभ्यर्थयते सविनयविरचितुरविजयानं मुनिप्रसाद सविनयविरचिताञ्जलिः प्रवर्तकपादपद्मषट्पदः ____ चतुरविजयो मुनिः (सुरत)

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218