________________
श्रीयोनिस्तवः
૧ ૬ ૧
॥ प्रस्तावना ॥
प्रकरणकारैः श्रीमद्धर्मघोषसूरिभिरात्मनः स्मरणार्थं भव्यप्राणिनामुपकाराय च श्रीमज्जिनागमादुद्धृत्य आसन्नोपकारिचरमतीर्थाधिराजश्रीमन्महावीरजिनविज्ञप्तिगभितं इदं योनिस्तवाभिधानं प्रकरणं विनिर्मितम् । अस्मिन्प्रकरणे सुरनारकयोरचित्तयोनिनिर्णयः, संज्ञितिर्यग्मनुष्याणां सचित्ताचित्तयोनिप्रकाशनम्, विकलेन्द्रियासंज्ञितिर्यङ्मनुष्यैकेन्द्रियाणां सचित्ताचित्तमिश्रयोनिनिश्चयः, शीतोष्णमिश्रयोनिनिरूपणम्, संवृतविवृतयोनिस्वरूपशंसनम्, कूर्मशङ्खावर्तादियोनिप्रकटनम्, जीवानां मूर्छनाद्यष्टविधयोनिप्रदर्शनम्, चतुरशीतियोनिसङ्ख्याकथनम्, सर्वजीवानां कुलकोटीनां सङ्ख्यासंकलनम्, इत्येते विषयाः प्रकरणकारैः प्रदर्शिताः सन्ति ।
इदं प्रकरणं केन कदा प्रणीतम्, एतद्विषयनिर्णयस्तु श्रीलोकनालिद्वात्रिंशिकायाः प्रस्तावनातोऽवलोकनीयः । अस्य चैकं पुस्तकं परमगुरुप्रवर्तक-श्रीमत्कान्तिविजयपादानामभ्यर्णत आसादितम्, द्वितीयं पुनः श्रीयुतपन्यास-श्रीमद्दानविजयमुनिवराणां सकाशतः सम्प्राप्तम् । एतत्पुस्तक द्वितयीनिरीक्षणेन मया शोधितम्, अत्र च, यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र कृपालुहृदयैः संशोधनीयं धीधनैरित्यभ्यर्थयते
सविनयविरचितुरविजयानं मुनिप्रसाद
सविनयविरचिताञ्जलिः प्रवर्तकपादपद्मषट्पदः ____ चतुरविजयो मुनिः
(सुरत)