Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 181
________________ ૧૬ ૨ श्रीयोनिस्तवः श्रीतपागच्छगगनाङ्गणनभोमणि-श्रीमद्धर्मघोषसूरिविरचितः ॥ श्रीयोनिस्तवः ॥ ॥ सङ्क्षिप्तटिप्पणीसहितः ॥ देविंदनयं विज्जाणंदमयं, धम्मकित्तिकुलभवणं । अणुभूयजोणिजाई, वीरजिणं विनवेमि अहं ॥१॥ टि० अनुभूता योनिषु जातिरुत्पत्तिर्येन एवंविधोऽहं (वीरजिनं) विज्ञपयामि ॥ १ ॥ सुरनरएसु अचित्ता, सचित्ताचित्ता उ सन्नितिरिमणुए । विगलअसन्निइगिदिसु, सचित्ताचित्तमीस तिहा ॥ २ ॥ टि० सुरनारकाणां योनिरचित्ता 'सुरनरएसु अचित्ता' इति । सुरनारकाणां सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसम्भवे (सर्वत्र) उपपातक्षेत्रं न केनचिज्जीवेन परिगृहीतमित्यचित्ता योनिः । गर्भजानां त्वचित्त(त्तानां) शुक्रपुद्गलानां गर्भाशयस्य च सचेतनस्य भावान्मिश्रा योनिः, तदुपपातस्थानस्य सर्वथाऽचित्तत्वा(भावा)त् । सञ्जि(गर्भज)तिर्यङ्मनुष्याणां सचित्ताचित्ता मिश्रेत्यर्थः । ये हि शुक्रमिश्राः शोणितपुद्गला योन्यात्मसात्कृतास्ते सचित्ता अन्ये त्वचित्ताः। विकलेन्द्रियाणामसञ्जितिर्यङ्नराणामे केन्द्रियाणां च त्रिधा । तत्र जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता, अचित्ते काष्ठे घुणादीनामचित्ता, सचित्ताचित्तगोक्षतादौ घुणकृम्यादीनामेव मिश्रा ॥ २॥

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218