Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
૧૬૪
श्रीयोनिस्तवः टि० कूर्मपृष्ठमिवोन्नतायां योनावुत्तमनरा उत्पद्यन्ते । शेषनराः संयुक्तपत्रद्वयाकारयोनौ । स्त्रीरत्ने च शङ्खावर्ता योनिः, सा च नियमाद्गर्भविनाशिनी ॥ ५ ॥
मुच्छंडजराउब्भिअ-संसेउववायपोअरसय तसा । मूलग्गपोरखंधा-बीयरुहा मुच्छ वणजोणी ॥ ६ ॥ टि० मूर्छाण्डजरायूद्भिद(द्रेद)संस्वेदोपपातपोतरसजास्त्रसाः, एतावता अष्टौ योनयः । तत्र मूर्छजाः शलभपिपीलिकामक्षिकादयः १ अण्डजाः पक्ष्यादयः २ जरायुजा गोमनुष्यादयः ३ उद्भेदजाः खञ्जरीटादयः ४ संस्वेदजा यूकादयः ५ औपपातिका देवादयः ६ पोतजा जरायुरहिता हस्त्यादयः ७ रसजा दध्यादिषु कृम्यादयः ८ मूलाग्रपर्वस्कन्धबीजरुहाः । एतावता चतस्र एता मूर्छा चेति पञ्च वनस्पतियोनयः ॥ ६ ॥
चउदस मणुअनिगोए, भूजलपवणग्गि जोणि सगलक्खा । चउ तिरिअनारयसुरे, दु दु विगले दस परित्तवणे ॥७॥ चुलसीइलक्खजोणिसु, इअ समवन्नाइ जोणिबहुलक्खे । इक्विक्का उ भमिओ, कुलकोडिलक्ख पूरंतो ॥ ८ ॥
टि० चतुर्दश लक्षा मनुष्येषु निगोदेषु च । लक्षाः सर्वत्र योज्यन्ते ॥ ७ ॥ समवर्णगन्धरसस्पर्शेषु योनिबहुलक्षेषु सत्स्वपि विभिन्नवर्णगन्धरस स्पर्शाश्चतुरशीतिलक्षयोनयः स्युः । तेष्वेकैकस्यां योनिजातौ बहवः कुलकोटिलक्षा इति । योनय उत्पत्तिस्थानानि, कुलानि च योनिप्रभवानि । तथाहि-यथैकस्मिन् छगणपिण्डे कृमीनां वृश्चिकादीनां च बहूनि कुलानि, तथैकस्यामपि योनौ भिन्नजातीयानि प्रभूतानि कुलानीति ॥ ८ ॥ कुलकोडिलक्ख तिन्नि उ, जलणंमि वर्णमि अट्ठवीसाओ । सत्त जले सग पवणे, अद्धत्तेरस जलयरेसु ॥ ९ ॥ १. मूलादीन्येव बीजान्युत्पत्तिकारणानि तेन मूलबीया इत्यदिव्यपदेशश्च ।
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218