Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office
________________ 466 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलो [4 कारिकाव्याख्यायां मात् / एकक्षणावगाहिनि च ज्ञाने तदन्यक्षणाऽऽश्रयज्ञातताफलत्वेन भ्रान्तत्वप्र प्रकाशः। नादित्यर्थः / एकक्षणेति / अन्यविषयकज्ञानेनान्यत्र ज्ञातताजनने जनकज्ञानं भ्रमः स्यादित्यर्थः / प्रकाशिका / तसिद्धौ च तत्रैवानकान्तिकत्वमिति भावः / अन्यविषयकेति। ज्ञातता चाव्यवहिपूर्वक्षणमेवावच्छेदकतयावलम्बत इति प्रमायामप्येवंसति भ्रमत्वप्रसङ्ग इत्यवधेयम् / न च रजतज्ञा नस्यापि शुक्तिविषयकत्वान्नान्यविषयकत्वमिति मूलस्थदृष्टान्तासङ्गतिरिति वाच्यम् / अन्यथाख्यात्यनभ्युपगन्तृमतेन मूलस्थदृष्टान्तोपपत्तेः, तथा च तन्मते यथा शुक्त्यविषयकरजतज्ञानस्य शुक्तिनिष्ठज्ञातताजनकतया भ्रमव्यवहारास्पदत्वं तथात्रापि स्यादित्यर्थः / न च तदविषयकत्वे कथं मकरन्दः। अन्यविषयकेति / न च रजतज्ञानस्यापि शुक्तिविषयत्वान्नान्यविषयकत्वमिति वाच्यम् / परमतेऽन्यथाख्यात्यनभ्युपगमेनातथात्वात् / तथा च शुक्त्यविषयकरजतस्मरणस्य शुक्तिनिष्ठज्ञातताजनकतया यथा भ्रान्तत्वं, तथा प्रकृतेऽपि स्यादिति भावः / न च ज्ञानस्य स्वविषयज्ञातताजननेऽतिप्रसङ्ग इति वाच्यम् / भेदाप्रहादेनियामकत्वादन्यथा व्यवहारजननेऽपि तदापत्तेरित्याशयः / ' टिप्पणी धानेन स्मरणोपपत्तेरिति भावः / अन्यविषयकज्ञानेनान्यत्र शातताजनन इति / अन्यधर्मावच्छिन्नविषयताकज्ञानेन अन्यधर्मावच्छिन्ने ज्ञातताजनन इत्यर्थः, तेन न रजतादीत्यादिमूलस्थदृष्टान्तासङ्गतिः, यथाश्रुते रजतज्ञानस्यापि शुक्तिविषयकत्वेनान्यत्र ज्ञाततेत्यादेरभावात् / केचित्त अन्यथाख्यात्यनभ्युपगमपक्षे स्वाविषयनिष्ठज्ञातताजनकत्वमेव भ्रमत्वम् / इदं रजतमिति भ्रमाभिषिक्तस्थले रजतप्रमया शुक्तौ ज्ञातताजननात्तत्र यथा भ्रमत्वं तथा प्रकृते वर्तमानक्षणावच्छिमविषयज्ञानेनान्यत्रानागतक्षणावच्छिन्ने ज्ञाततापेक्षया वर्तमानावच्छिन्ने ज्ञातताजननाद् भ्रमत्वमित्याहुः / तच्चित्यम् / ज्ञाततावादिभट्टमते उत्तरकर्तृन्यायमते चान्यथाख्यात्यभ्युपगमात् / तदन्यतरमतावलम्बेनैव कस्यचिदित्यर्थस्य वक्तुं युक्तत्वात् / किश्चान्यथाख्यात्यनभ्युपगन्तृमते ज्ञातताया एवानभ्युपगमात् तस्या ज्ञानज्ञानार्थमभ्युपगमेन स्वप्रकाशतामतेऽन्यथैव तत्सिद्धः, स्वविषयकेनेदंज्ञानेनैव च ज्ञाततोत्पत्तेः सम्भवे रजतज्ञानस्य तदुत्पादकत्वे मानाभावादतिप्रसङ्गाच्य / न च रजतज्ञानेदंज्ञानयोर्भेदग्रहाद् रजतार्थिनः पुरोवर्तिनि प्रवृत्त्यादिवत् पुरोवर्तिनि ज्ञाततामपि रजतज्ञानं जनयिष्यतीति वाच्यम् / शुक्तिज्ञानमात्रस्य रजतार्थिप्रवृत्तिजनकत्वादर्शनाद्, रजतज्ञानभेदाग्रहापेक्षायामस्तु हि रजतज्ञानस्य प्रवृत्तावुपयोगः, शुक्तिज्ञानमात्रस्य तत्र ज्ञातताजनकत्वस्य क्लुप्ततया तत्र भेदाप्रहस्यापेक्षाकल्पनस्यासम्भवात् / न च बाधोत्तरं रजतत्वेन शुक्तितित्यनुभवाद्रजतत्वेन ज्ञाततोत्पत्तौ रजतज्ञाना. पेक्षा स्यादिति वाच्यम् / विषयत्वातिरिक्तस्य ज्ञातत्वस्य रजतत्वाद्यवच्छिन्नत्वे मानाभावात् / भावे वा किमपराद्धं हि रजतत्वेन शुक्तिविषयतया तथासत्यन्यथाख्यात्यापत्तिः; * प्रभाकरैश्च रजतत्वेन ज्ञातत्वस्य रजतत्वज्ञानभेदेनागृहीतशुक्तिज्ञानविषयत्वरूपत्वस्यैव स्वीकरणीयत्वात् / एवन्दा न्तिके घटस्यैव विषयत्वाज् ज्ञातताधारत्वाचान्यत्वभावाद् विशिष्टताम्पुरस्कृत्य भेदेऽन्यथापि सजतेरुतत्वात् / न चान्यथाख्यातिपक्षे कथं सङ्गतिः, यस्य ज्ञातता तस्यैव विषयत्वे पूर्वक्षणादीनामविषयत्वेनान्यथाख्यात्यभावप्रसमात्, विषयत्वस्य ज्ञाततानियतत्वे ज्ञातताधारस्याविषयत्वेन ज्ञानस्यान्यव्याख्यातित्त्वासम्भवादिति वाच्यम् / प्रकारविशेष्ययोरुभयोरेव ज्ञातताया विनिगमनाविरहेणानुभवानुरोधेन च स्वीकरणीयत्वात् / प्रकारीभूतक्षणशाततामादाय तस्यापि विषयत्वात् विशेष्ये ज्ञाततायाः क्षणान्तरसम्बन्धे स्वीकारे तस्य विषयत्वापत्त्याऽन्यथाख्यातेरापादनीयत्वात् / वस्तुतो
Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610