Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 595
________________ ( 2 ) स्थैर्यदृष्ट्योर्न सन्देहो न प्रामाण्ये विरोधतः / एकतानिर्णयो येन क्षणे तेन स्थिरे मतः // 17 // हेतुशक्तिमनादृत्य नीलाद्यपि न वस्तु सत् / तद्युक्तं तत्र तच्छक्तमिति साधारणं न किम् / / 18 // पूर्वभावो हि हेतुत्वं मीयते येन केनचित् / . . व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि / / 16 / / इत्येषा सहकारिशक्तिरसमा माया दुरुन्नोतितो मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता / देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः साक्षात् साक्षितया मनस्यभिरतिं बनातु शान्तोमम।। 20 // .. twesor अथ द्वितीयः स्तबकः। प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् / तदन्यस्मिन्नविश्वासान्न विधान्तरसम्भवः // 1 // वर्षादिवद्भवोपाधिर्वृत्तिरोधः सुषुप्तिवत् / उद्भिवृश्चिकवद्वर्णा मायावत् समयादयः // 2 // जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः / ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् / / 3 / / कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन् हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति | तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवं विश्वासैकभुवं शिवं प्रति नमन् भूयासमन्तेष्वपि // 4 // moros अथ तृतीयः स्तबकः। , योग्यादृष्टिः कुतोऽयोग्ये प्रतिबन्धिः कुतस्तराम् / कायोग्यं ! बाध्यते शृङ्ग * कानुमानमनाश्रयम् // 1 // व्यावाभाववत्तैव भाविकी हि विशेष्यता। . अभावविरहात्मत्वं वस्तुनः प्रतियोगिता // 2 // दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता। न तस्यां नोपलम्भोऽस्ति नास्ति सानुपलम्भने / / 3 / / इष्टसिद्धिः प्रसिद्धेऽशे हेत्वसिद्धिरगोचरे। नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा // 4 // आगमादेः प्रमाणत्वे बाधनादनिषेधनम् / आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता / / 5 // दृष्ट्यदृष्ट्योर्न सन्देहो भावाभावविनिश्चयात् / . अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम् / / 6 //

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610