Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________ 576 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [18-20 कारिकाव्याख्यायां अस्माकन्तु निसर्गसुन्दर! चिराच्चेतो निमग्नं त्वयीत्यद्धाऽऽनन्दनिधे! तथापि तरलं नाद्यापि सन्तृप्पते। तन्नाथ ! त्वरितं विधेहि करुणां येन त्वदेकाग्रता याते चेतसि नाप्नुवाम शतशो याम्याः पुनयोतनाः॥१९॥ इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्री. यद्वासयेदपि च दक्षिणवामको द्वौ। नो वा ततः किममरेशगुरोर्गुरुस्तु प्रीतोऽस्त्वनेन पदपीठसमर्पितेन / / 20 // इति श्रीन्यायाचार्यपदाङ्कितमहामहोपाध्यायश्रीमदुदयनविरचितं न्यायकुसुमाञ्जलिप्रकरणं समाप्तम् // प्रकाशः। अस्माकं त्वश्रद्धा नास्तीत्याह / अस्माकंत्विति / यद्यपि त्वयि चेतो निमग्नमित्यद्धा तत्त्वम्, तथापि तरलं मनो नाद्यापि सन्तृप्यते तृप्तं भवति / तृपेः क्वचित् सकर्मकत्वात् कर्मकर्तरि रूपम् / त्वदेकाप्रतां त्वत्प्रवणताम् / याम्या यमदेवताकाः / यातना नरकपीडाः // 19 // ___इत्येष इति / इतिः समाप्तौ। एष नीतिकुसुमाञ्जलिर्दक्षिणवामको द्वौ यदि वासयेत् , ततः किमस्माकम् / यद्वा यद्वासयेदित्यत्र प्रोक्त एव यदि ब्रूयात् माऽस्मान् वासयतीति, तं प्रत्याह नो वा इति। वासयेदित्यनेन सम्बन्धः। ततः किं ! तद्वासनायाः फलं न किञ्चिदित्यर्थः / पदमेव पीठं, तत्र न्यायकुसुमाजलेर्यत् समर्पणं, तेन भगवान् प्रीतोऽस्तु // 20 // यस्तर्कतन्त्रशतपत्रसहस्ररश्मिर्गङ्गेश्वरः सुकविकैरवकाननेन्दुः / तस्यात्मजोऽतिविषमं कुसुमाञ्जलिं तं प्राकाशयत्कृतिमुदे बुधवर्द्धमानः // इति महामहोपाध्यायश्रीवर्द्धमानविरचितो न्यायकुसुमाञ्जलिप्रकाशः समाप्तः // प्रकाशिका। अनुजस्तस्य कृतवानिमा व्याख्या भगीरथः // इति महामहोपाध्याय मेघटकुरापरनामकश्रीभगोरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां पञ्चमः स्तबकः // इति कुसुमाञ्जलिप्रकाशिका समाप्ता / टिप्पणी कुतर्काभ्यासमलिनान्तःकरणं कथं वासयिष्यतीत्यत आह नो वेति। अपिच किंच, नो वासयेत् , ततः किमस्माकं किन्तु अमरेश इन्द्रस्तस्य गुरुवृहस्पतिर्ब्रह्मा वा, तस्य गुरुः उपदेष्टा परमेश्वरः, पदमेव पीठं तत्र समर्पणं यस्य, तादृशेनानेन न्यायकु सुमाञ्जलिना प्रसन्नोऽस्त्वित्यर्थः // 20 // इति मिथिलादेशालङ्कारसर्वतन्त्रस्वतन्त्रश्रीबच्चामागुरुचरणसेवनसमुपजातविद्येन दरभङ्गामण्डलान्तर्गतसीमाप्रामनिवासिना काशीहिन्दुविश्वविद्यालयदर्शनविभागाध्यक्षेण मैथिलेन लक्ष्मीनाथझाशर्मणा कृता न्यायकुसुमाजलेः चतुःस्तबकपर्यन्तगुरुकृतटिप्पणी तोऽवशिष्टपञ्चमस्तबकमात्रस्य टिप्पणी समाप्ता। साम्बशिवार्पणमस्तु /
Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610