Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 591
________________ 574 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाअलौ [ 17 कारिकाव्याख्यायों भावे फलाभावादि'त्यादि। न कार्यकव्यङ्गयायाः सामग्या निषेधुमशक्यत्वात् / अपि च दृश्यते तावद्बहिरिन्द्रियोपरमेऽपि असन्निहितदेशकालार्थसाक्षा. कार स्वप्ने / न च स्मृतिरेवासौ पटीयसी। स्मरामि स्मृतं वेति स्वप्नानुसन्धानाभावात् / पश्यामि दृष्टमित्यनुव्यवसायात् / न चारोपितं तत्रानुभवत्वम् / अबाधनात् / अननुभूतस्यापि स्वशिरश्छेदनादेरवभासनाच्च। __ स्मृतिविपर्यासोऽसाविति चेत् / यदि स्मृतिविषये विपर्यास इत्यर्थः, तदाऽ. नुमन्यामहे। अथ स्मृतावेवानुभवत्वविपर्यासः इति, तदा प्रागेव निरस्तः। न च सम्भवत्यपि, न ह्यन्येनाकारेणाध्यवसितोऽन्येन ज्ञानावच्छेदकतयाऽध्यवसी. यते / तथा च स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न विमं घटमिति। न ह्ययं घट इति स्मृतेराकारः। तस्मादनुभव एवासौ स्वीकर्तव्यः। अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वं, संवादात् / तच्च काकतालोयमपि न निनिमित्तम् / सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात् / हेतुश्चात्र धर्म एव / स च कर्मजवत् योगजोऽपि योगविधेरवसेयः, कर्मयोगविध्योस्तुल्ययोगक्षमत्वात् / तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलं, धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति / अतस्तत्सामग्रीविरहोऽसिद्धः। तथापि विपक्षे किं बाधकमिति चेत्। 'द्रे ब्रह्मणी वेदितव्ये' इत्यादियोगविधिवैयर्थ्यप्रसङ्गः अशक्यानुष्ठानोपायोपदेशकत्वात् / न चासाक्षात्कारिज्ञानविधानमेतत् / अर्थशानावधिनाऽध्ययनविधिनैव तस्य गतार्थत्वात् इति / एतेन परमावादयो व्याख्याता इति / तदेनमेवम्भूतमधिकृत्य श्रूयते-'न द्रष्ट्रर्दष्टेर्विपरिलोपो विद्यते' इति / 'एकमेवाद्वितीय मिति / 'पश्यत्यचक्षुः स शृणोत्यकर्ण' इति / 'द्रे ब्रह्मणी वेदितव्ये पर प्रकाशः। कार्यकेति / अथ प्रत्यक्षहेतुयावद्विशेषाभावादयोग्याया अपि सामग्या अभाव उन्नेयः। तन्न यथा स्वप्नज्ञाने सहकारिविशेषान्मनसो बहिः स्वातन्त्र्यं, तथा प्रकृतेऽपि योगजधर्मात्तस्य तथात्व. मित्याह / अपि चेति / पटीयस्त्वम्-असन्दिग्धविषयत्वम् / स्मृतिविपर्यासः-विपर्यस्ता स्मृतिः, प्रागेवेति / अनुभवत्वस्यावाधनादित्यर्थः / न च सम्भवत्यपि इत्यत्र स्मृतावनुभवत्वविपर्यास इत्यनुषञ्जनीयम् / यदि स घट इति स्मृतावनुभवत्वारोपः, तदा तं घटमनुभवामीति स्यात् , न तु इमं घटमनुभवामीत्याह न हीति / ननु प्रमायामेव मनसो बहिरस्वातन्त्र्यं स्वमज्ञानं त्वप्रमा इत्यत आह अस्ति चेति / तथापि साक्षात्कारो भ्रमो वासनाप्रभवत्वात् कामातुरकामिनीसाक्षाकारवदित्याशङ्कय तत्प्रमात्वमुपपादयति स चेति। अर्थज्ञानाचधिनेति। स्वाध्यायोऽध्येतव्य इति विधेः परिशेषादर्थज्ञानफलसिद्धावर्थज्ञानावधित्वं सिद्धमिति भावः। एतेनेति। परमाण्वादयोऽपि प्रमेयत्वात् प्रत्यक्षा इत्यर्थः। एकमेवेति / ईश्वराख्यं ब्रह्म एकमेव न द्वितीयमित्यर्थः / मदर्थमित्यनेन ईश्वरज्ञानार्थता प्रकाशिका।। धीरा धरणिभवानी यमजनि चन्द्राद् भगीरथं तनयम् / तस्य कृतावेतस्यां सन्तः सन्तोषमाचरत //

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610