Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________ आक्षेपलभ्ये संख्येये नाभिधानस्य कल्पना / संख्येयमात्रलाभे तु साकाङ्केण व्यवस्थितिः // 11 // अतिप्रसङ्गानः फलं. नापूर्व . तत्त्वहानितः / तदलाभान्न कार्यश्च न क्रियाऽप्यप्रवृत्तितः / / 12 / / असत्त्वादप्रवृत्तेश्च नाभिधाऽपि गरीयसी / बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः / / 13 // हेतुत्वादनुमानाच्च मध्यमादौ वियोगतः / अन्यत्र क्लुप्तसामर्थ्यान्निषेधानुपपत्तितः / / 14 // विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः / अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता // 15 // कृत्स्न एव च वेदोऽयं परमेश्वरगोचरः / स्वार्थद्वारैव तात्पर्य तस्य स्वर्गादिवद्विधौ / / 16 / / स्यामभूवं भविष्यामीत्यादौ संख्या प्रवक्तृगा। समाख्याऽपि च शाखानां नाद्यप्रवचनाहते // 17 / / इत्येवं श्रुतिनीतिसंप्लवजलै योभिराक्षालिते येषां नास्पदमादधासि हृदये ते शैलसाराशयाः / किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवञ्चिन्तकाः / " काले कारुणिक! त्वयैव कृपया ते तारणीया नराः / / 16 / / अस्माकन्तु निसर्गसुन्दर! चिराच्चेतो निमग्नं त्वयीत्यद्धाऽऽनन्दनिधौ तथापितरलं नाद्यापिसन्तृप्यते / ' तन्नाथ! त्वरितं विधेहि करुणां येन त्वदेकाग्रतां याते चेतसि नाप्नुवाम शतशो याम्याः पुनर्यातनाः // 16 // इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्रीयद्वासयेदपि च दक्षिणवामको द्वौ / नो वा, ततः किममरेशगुरोर्गुरुस्तु / प्रीतोऽस्त्वनेन पदपीठसमर्पणेन // 20 // // इति कुसुमाञ्जलिकारिकाः // जानकाद्वारा
Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610