Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 589
________________ 572 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाअलौ [ 17 कारिकाव्याख्यायो सङ्ख्याविशेषादपिस्यामभूवं भविष्यामीत्यादिसङ्ख्या च वक्तृगा। समाख्याऽपि न शाखानामाद्यप्रवचनादृते // 17 // कार्यतया हि प्राक् सङ्ख्योक्ता, सम्प्रति तु प्रतिपाद्यत्तयोच्यते। तथाधुत्तमपुरुषाभिहिता सङ्ख्या वक्तारमन्त्रेतीति सुप्रसिद्धम् / अस्ति च तत्प्रयोगःप्रायशो वेदे / ततस्तदभिहितया तयाऽपि स एवानुगन्तव्यः, अन्यथाऽनन्वयप्रसङ्गात् / ' अथवा-समाख्याविशेषः सङ्ख्याविशेष उच्यते / काठकं कालापकमित्यादयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्य्यन्ते / ते च न प्रवचनमात्रनि. बन्धनाः प्रवक्तृणामनन्तत्वात् / नापि प्रकृष्टवचननिमित्ताः / उपाध्यायेभ्योऽपि प्रकर्षे प्रत्युतान्यथाकरणदोषात्। तत्पाठानुकरणे च प्रकर्षाभावात् / कतिचनादौ संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति / नाण्याद्यस्य वक्तुः समाख्येति युक्तम् / भवद्भिस्तदनभ्युपगमात्। अभ्युपगमे वा स एवास्माकं वेदकार इति वृथा विप्रतिपत्तिः। स्यादेतत् , ब्राह्मणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः। तद्ध्येया तद्नुष्ठेयार्था च शाखा तत्समाख्यया व्यपदिश्यते इति किमनुपपन्नम् / न / क्षत्रिया प्रकाशः। पुरुषगुणाभावेतजन्यप्राशोभनवर्णोच्चारायितृत्वं प्रकर्षः, तत्राह कति चेति। न च ब्राह्मणत्वव्याप्यं प्रकाशिका। स्वविशेषणादेव पक्षधर्मताबलेनाजन्यज्ञानसिद्धिस्तथाप्यकालोत्पत्तिकस्य जनकत्वशङ्कच नेति स्वरूपनिर्वचनपरं समानकालोत्पत्तिविशेषणम् / न चार्यानभिज्ज्ञोक्तवाक्ये व्यभिचारः, प्रमाणस्य तस्य पक्षसमत्वात् , अप्रमाणस्य च प्रमाणवाक्यात्मकत्वहेतुविरहात् , उत्तमपुरुषत्वात् प्रमाणोत्तम पुरुषादित्यर्थः, अन्यथा शुकोक्तप्रमाणोत्तमपुरुषे व्यभिचारात् , प्रमाणतद्वाक्यस्य च पक्षसमत्वमेवेत्यर्थः / वक्तरीति / यद्यपि वक्त्रनुवक्त्रोर्मेदादनुवक्त्रा नार्थान्तरशङ्का तथापि वक्तृत्वं वचनकर्तृत्वमात्रं तच्च तत्रापीति युक्तं स्वातन्यविशेषणमिति भावः // 16 // कतिचेति। तथा च पुनरप्यनियमप्रसङ्गकतादृशज्ञानाजन्यत्वविशेषणादेव पक्षधर्मताबलादजन्यज्ञानसिद्धाविष्टसिद्धिः, तथाप्यन्यकालोत्पत्तिकस्य जनकत्वशकैच नेति स्वरूपतानिर्वचनपरं तदिति मन्तव्यम् / न च शुकादिवाक्ये व्यभिचारः, तस्यापि पक्षसमस्वादिति भावः। (1) वक्तरीति / न च वक्तृत्वानुवक्तृत्वयोर्भेदादनुवक्ता न वक्तेति न तद्विशेषणमर्थवदिति वाच्यम् / वक्तृत्वं हि वचनकर्तृत्वं, तच तत्रापि / अागन्तुकेति / तथा च कठादिशरीरमधिष्ठायाद्यवक्तुरीश्वरस्यैव तत्तत्समाख्याविशेषे निबन्धनत्वमिति भावः // 16 // टिप्पणी। द्वयणुकपरिमाणजनकसंख्याजनकापेक्षाबुद्धयाश्रयतया ईश्वरः सिध्यतीति पूर्ववृत्तं स्मारयन्नाह कार्यतयेति। संख्याविशेषशब्दस्यार्थान्तरमाह समाख्यापीति / प्रवक्तृवचननिमिन एवेति / एवं चातीन्द्रियार्थदर्शी परमकारुणिको भगवानेव अस्मदाद्यदृष्टाकृष्टकठकादिशरीरमधिष्ठाय यां यां शाखां प्रावोचत् तत्तच्छाखानां तत्तनाम्ना व्यपदेश इति भावः / (1) प्रकाशिकामकरन्दयोर्गृहीतस्यैतत्प्रतीकस्य 'आमन्तुकस्येति' मकरन्दे समुपलब्धस्य च प्रकाशप्रतीकस्य व्याख्येयः ‘एतद्वेदवाक्यसमाने त्यादित ऊर्ध्व व्यवस्थाव्यतिरेकश्चे'त्यतः पूर्व कश्चिदंशो प्रकाशस्यादर्शपुस्तके झा इति प्रतिभाति / विशेषस्तु भूमिकायां द्रष्टव्यः / सं० /

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610