Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 588
________________ पंचमस्तवके] ईश्वरसाधनम् / 571 पाक्यादपि / संसर्गभेदप्रतिपादकत्वं ह्यत्र वाक्यत्वमभिप्रेतम् / तथाच यत्पद• कदम्बकं यत्संसर्गभेदप्रतिपादकं तत् तदनपेक्षसंसर्गज्ञानपूर्वकं, यथा लौकिकं, तथाच वैदिकमिति प्रयोगः। विपक्षे च बाधकमुक्तम् // 16 // प्रकाशः। न। प्रथमं प्रवृत्तिमात्र कार्यान्वितज्ञानमात्रयोरनुमानं भवति क्रमेणेत्यत्र मानाभावात् / घटादिपदशक्तिग्रहस्य तेन विनाऽपि सम्भवात् / न च सामान्ययोः कार्यकारणभावग्रहो विशेषयोस्तथात्वज्ञाने हेतुरिति वाच्यम् / विशेषयोरन्वयव्यतिरेकाभ्यामेव तद्ग्रहात् / विशेषयोः कार्यकारणभावज्ञानं प्राथमिकमिति तन्मूलकः पदविशेषग्रह एव स्यात् / निष्प्रयोजनत्वेनान्तराऽनुमितौ मानाभावात् / . किश्च ममेदं कार्यमिति ज्ञानं साक्षादुपपादकं प्रवृत्त्या स्वकारणत्वेनानुमितम् , अतस्तत्र शक्ति गृह्णीयात् , साक्षादुपपादकविषयत्वात् कल्पनायाः। न विदं कार्यमिति ज्ञाने, तस्य साक्षादुपपा दकोपपादकत्वात् / अयेदं कार्यमिति ज्ञानशक्तयैव परम्परयाऽनुमानद्वारा ममेदं कार्यमिति ज्ञानसम्भ. वादन्यलभ्यत्वे न तत्र शक्तिकरूपन मिति तुल्यम् / अपि च-अस्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात् कारणताबोधात्तत्र शक्तिग्रहः, तथाप्यावापोद्वापाभ्यां पदविशेषस्येतरान्वितस्वार्थज्ञाने शक्ति कल्पयति, लाधवात् / न तु कार्यत्वांशे, गौरवादन्यलभ्यत्वाच्च / अन्यथासिद्धिमपश्यतो हि बालस्य पूर्व तत्सम्भवेऽपि पश्चाद्वौरवान्यलभ्य त्वतर्कसहकृतमानेन तद्बाधैवोचिता। न च प्रवृत्तिहेतुतयोपस्थित कार्यान्वितज्ञानं हित्वा कल्पयित्वाऽन्वितज्ञानं तत्र शक्तिकल्पनमयुक्तमुभयथा गौरवादिति वाच्यम् / कार्यान्वितज्ञानेऽन्वितज्ञानस्यापि सत्त्वात् , तद्विशेषत्वात्तस्य / तथात्वेऽपि तदुपस्थितावन्वितज्ञानत्वं न विषय इति तदुपस्थित्यन्तरं कल्प्यमिति चेत् / न कार्यान्वितज्ञाने अन्वितज्ञानं विशेष्यमिति तदुपस्थितौ तस्यापि विषयत्वात् , विशिष्टज्ञानस्य विशेष्यविषयत्वनियमात् / अन्यथा अन्यजातिज्ञानमन्यच्च जातिविशिष्टव्यक्तिज्ञानमिति व्यक्तिज्ञानमपहाय जातिज्ञानं क्वापि नोपस्थितमिति न तव ज्ञातिरेव पदार्थः स्यात् / ___यच हर्षहेतूनां बहूनां सम्भवादित्युक्तम् / तन्न, स्वतो गृहीतहर्षहेतुस्तनपानादेर्वाधावतारादन्यस्य हर्षहेतोरप्रहात् / अत उपस्थितत्वादुपपादकत्वाच्च पुत्रजन्मज्ञानमेव हर्षहेतुतया कल्पयति / 'नं चान्यदपि प्रियं हर्षहेतुर्भविष्यतीति शङ्कया कथमेवमिति वाच्यम् / कार्यान्वितज्ञानेऽपि शक्तिप्रहानापत्तेः / प्रयोज्यज्ञानहेतूनां बहुत्वात् / अनन्यथासिद्धशब्दार्थविधानश्च तुल्यमिति संक्षेपः / ____यत्पदकदम्बकमिति / एतदेदवास्यसमानकालोत्पत्तिकज्ञानाजन्यमिदं वेदवाक्यं समा. नविषयकज्ञानजन्यं वाक्यत्वात् लौकिकवाक्यवदित्यत्र तात्पर्यम् / विपक्ष चेति॥१६॥ प्रकाशिका। एतद्वेदवाक्यसमानकालोत्पत्तिकेति। अत्र समानकालपदेन स्थूलकाले पावित्रक्षणाद् पूर्वकालएव विवक्षितः, सच पैत्रिकस्य जनकत्वासम्भवेन तदादायात्मन्तरशङ्कानवतारात् / एवञ्चाध्याप कादिज्ञानजन्यत्वेनार्थान्तरवारणाय जन्यान्तरं पक्षविशेषणम् / अत्र च समानविषयत्वं ज्ञानविशेषणम् अन्यथा तात्पर्यादिज्ञानजन्यत्वेन विशेषणासिद्धः / न चैवमपि वाक्यार्थं ज्ञात्वा अस्मदायुच्चरितवेदे पक्षतावच्छेदकासिद्धिति वाच्यम् / तद्भिनस्येव पक्षत्वादिति भावः। यद्यपि सोत्पत्तिकज्ञानाजन्य मकरन्दः। एतद्वेदवाक्येति / समानकालपदेन स्थूलकालोपाधेर्विवक्षणात् पूर्वकाल एव विवक्षितः / समानकालोत्पत्तिकस्य जनकत्वासम्भवेन तदादायार्थान्तरादिशङ्काऽनवकाशात् / एवश्चाध्यापकादिज्ञानजन्यत्वेनार्थान्तरवारणायाजन्यान्तम् / न चैवमप्यसिद्धिः तादृशपदज्ञानादिजन्यत्वादिति पाच्यम् / समानविषयत्वेनापि ज्ञानविशेषणात् / न चैवमपि वाक्यार्थ ज्ञात्वा अस्मदादिनैवोच्चरिते इदानीन्तनवेदे दोषतादवस्थ्यमिति वाच्यम् / सद्भिनवेदस्यैव पक्षत्वादित्याहुः / यद्यपि सोत्पत्ति

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610