Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 552
________________ . 535 पंचमस्तवके] ईश्वरसाधनम् / स्यादेतत् , अभिधीयतां तर्हि कर्ताऽपि / तदनभिधाने हि सङ्ख्येयमात्रमाक्षिप्य सङ्ख्या कथं कर्तारमन्वियात् , न तु कर्मादिकमपि / शाकस्पी पचति शाकसूपौदनान् पचतीत्यादौ विरोधनिरस्ता सङ्ख्या चैत्र इति कर्तारमविरुद्धमनुग च्छतीति चेत् / चैत्र श्रोदनं पचतीत्यत्र का गतिः। . एकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि तथा, यववराहादिवदिति चेत् / न, पच्यते इत्यादावपि तथाभावप्रसङ्गात् / चैत्राभ्यां चैत्रैरिति विरोधनिरस्ता सूप इत्यविरुद्धं कर्म समनुक्रामतीति चेत् / चैत्रमैत्राभ्यां शाकसूपौ पच्येते इत्यत्र का गतिः / अन्यत्र निर्णीतेनार्थेन व्यवहार इति चेत् / न, पचतीत्यादावपि तथाभावप्रसनात् / तत्र पूर्वक एव निर्णयः, पच्यते इत्यत्र त्वपर इति चेत् / न, विशेषाभापात्। आत्मनेपदपरस्मैपदाभ्यां विशेष इति चेत् / न, पच्यते पचते पक्ष्यते इत्यादी विप्लवप्रसङ्गादिति / प्रकाशः। नियमो न स्यादिति वैयाकरणमतमाह-अभिधीयतामिति / का गतिरिति / श्रोदनमित्येकत्वेनोपस्थितेनैकत्वसङ्ख्याऽन्वयविरोध इति पचतीत्येकत्वमोदनान्वितं किन्न स्यादित्यर्थः / ___ यववराहादीति | यवमयश्वरुर्भवतीत्यत्र दीर्घशूकस्य यवपदार्थतया निर्णीतस्य यवैर्यजेतेत्यादौ न यत्र वाक्यशेषस्तत्रापि तस्यैव यवपदवाच्यता यथेत्यर्थः / तथाभावेति / आख्याताभिहितभावनायाः कन्वयप्रसङ्गादित्यर्थः / तथा चौदनः पच्यते देवदत्त इति प्रयुज्यतेति भावः। अन्यत्रेति / चैत्राभ्यां चैत्रैः सूपः पच्यते इत्यत्र कर्मणि सङ्ख्याऽन्वयस्य निर्णीतत्वादत्रापि तथेत्यर्थः / पचतीत्यादाविति / देवदत्त प्रोदनं पचतीत्यादावपि कर्मगतैकत्वान्वयप्रसङ्ग इत्यर्थः / तत्रेति / पचतीत्यत्र सङ्ख्याऽन्वयः कर्ता, पच्यते इत्यत्र कर्मणेत्यर्थः। विशेषेति / क्वचित् कर्त्तरि क्वचित् कर्मणि सङ्ख्याऽन्वयस्य दृष्टत्वादन्यतरत्र नियामकाभावादित्यर्थः। पच्यत इति / पच्यत इति दृष्टान्तार्थम् / अतो यथात्मनेपदात् पच्यते इत्यत्र कर्मणा सङ्खयान्वयः, तथा पचते इत्यत्रापि स्यादित्यर्थः। नन्वाख्यातवाच्यत्वे कर्तुस्तद्वाच्यया सङ्घययाऽन्वयबोधो न स्यात् , एकपदोपस्थापितपदार्थयोमिथोऽन्वयबोधस्याव्युत्पन्नत्वात् , अन्यत्र भिन्नपदोपस्थापितानामेवान्वयबोधादित्यत आह प्रकाशिका। पच्यत इति / दृष्टान्तार्थमिति। तत्र प्रथम पृष्ठेनैवेति / इदश्च द्वयोस्तुल्यवलवत्तायामित्यवधेयम् / टिप्पणी। वैयाकरणः शंकते स्यादेतदिति / इत आरभ्य एवं प्राप्ते इत्यतःप्राक्तनेम सन्दर्मेण, तन्मते चैत्रः पचतीत्यादावाख्यातेन कर्ता संख्या चाभिधीयते, तथाचैकत्ववच्चैत्राभिन्नकर्तृको वर्तमान कालिकः पाक इत्यन्वयबोधः। यदि तत्राख्याताभिहितायाः संख्यायाः संख्येयाविनाभूततयाऽऽक्षिप्तेन का सहान्वयो भवतीति त्रूयात् , तदा कर्मणोऽपि संख्येयतया तत्रैव कुतो नान्वय इति शंकाऽनिवार्या स्यात् / कर्तुराख्यातवाच्यत्वे तु समानपदोपात्तत्वेन तत्रैव संख्याऽन्वय उपपद्यत इत्यर्थः / न तु कर्मादिकमिति। अन्वियादिति पूर्वेणान्वयः। का गतिरिति / कथं नोदने आख्यातार्थसंख्यान्वयः॥

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610