Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 584
________________ पंचमस्तवके ] ईश्वरसाधनम् / 567 भावतदुद्देशंप्रवृत्त्योरभावात् / नाप्यसुरामिद्यादिवदस्य नो विरोधिवचनत्वम् , क्रियासङ्गतत्वात् / असमस्तत्वाच्च // 14 // तस्माद्विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः।। अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता // 15 // तत्र स्वयङ्कतकक्रियेच्छाऽभिधानं कुर्यामिति / सम्बोध्यकर्तकक्रियेच्छाsभिधानं कुर्य्या इति / शेषकर्तृकक्रियेच्छाऽभिधानं कुर्वीतेति / तथाचाग्निकामो दारुणी मथ्नोयादित्यस्य लौकिकवाक्यस्यायमर्थः सम्पद्यते अग्रिकामस्य दारुमथने प्रवृत्तिर्ममेष्टेति / ततः श्रोताऽनुमिनोति-नूनं दारुमथनयत्नोऽग्नेरुपाय इति / यद्विषयो हि प्रयत्नो यस्याप्तेनेष्यते, स तस्यापेक्षितहेतुः / तथा तेनावगतश्च, यथा ममैव पुत्रादे जनविषय इति व्याप्तः। _ विषं न भक्षयेदित्यस्य तु विषभक्षणगोचरा प्रवृत्तिर्मम नेष्टा इत्यर्थः। ततोऽपि श्रोताऽनुमिनोति-नूनं विषभक्षणभावना अनिष्टसाधनम् / यद्विषयो हि प्रयत्नः कर्तुरभिमतसाधकोऽव्याप्तेन नेष्यते, स ततोऽधिकतरानर्थहेतुः,तथा तेनावगतश्च, यथा ममैव पुत्रादेः क्रोडाकर्दमविषभक्षणादिविषय इति व्याप्तेः / प्रकाशः। तथाऽत्रेष्टसाधनविरोध्यनिष्टसाधनमर्थः स्यादित्यत आह नापीति / क्रियासङ्गतस्य नमः प्रसज्यप्रतिषेधवाचकत्वात् समास एव तस्य पयुदासवृत्त्या तदितरविरोधिपरत्वादित्यर्थः / नियोक्तृधर्मो वेत्यभिमतं पक्षमुपसंहरति. विधिरिति / प्रवृत्त्यादावित्यादिपदान्निवृत्तिः। विषयसप्तमीयम् / तेन प्रवृत्तिनिवृत्तिविषय प्राप्ताभिप्रायो लिङर्थ इत्यर्थः / प्रवर्तकमिष्टसाधनताज्ञानमेव लिङर्थस्त्वाप्ताभिप्रायो लाघवादिति भावः / वक्रभिप्रायस्य विधित्वे कुर्यामित्यादावर्थभेदमानुभविकमुपपादयति तत्रेति / / ___ स्वर्गकामो यजेतेत्यस्य स्वर्गकामकृतिसाध्यतया यागो यागयत्नो वा आप्तेष्ट इत्यर्थः / ततो यो व्यापारो यस्य कृतिसाध्यतया यद्यापारविषयः प्रयत्नो वा यस्याप्तेनेष्यते, स तस्य बलवदनिष्टाननुवन्धीष्टसाधन मिति व्याप्तिग्रहाद् यागस्येष्टसाधनत्वमनुमिनोति / तथाहि-यागो मदिष्टसाधनं मत्प्रयत्नविषयतया मदाप्तेष्यमाणत्वात् , यथा मत्पित्रा मत्प्रयत्नविषयतया इष्यमाणं भोजनं मदि प्रकाशिका। इष्टसाधनत्वस्य वाऽभावः प्रतिपादयितुं शक्यत इत्यादिकमित्यर्थः। समास एवेति। यद्यपि न घटः पट इत्यादौ व्यासेऽपि पर्युदासवृत्त्या प्रयोगो दृष्टः, तथापि विरोधिवाचकत्वं समास एव, अत एवोक्तंतदितरविरोधिपरत्वादिति / विधिर्वक्तुरित्यादिकारिकायां वक्तरभिप्रायो विधिरभिधेय इति योजना / लाघवादिति / न चाप्तस्य विशेषणीभूतस्य शक्यत्वे विपरीतं गौरवमिति वाच्यम् / वस्तुत प्राप्तस्य योऽभिप्रायस्तस्याभिधेयत्वेन शक्यत्वमित्याशयात् / स्वर्गकामकृतिसाध्यतयेति / पाख्यातार्थकृतावेव लिङर्थान्वयो धात्वर्थे वेति मतभेदेन विकल्पः। इष्टसाधनत्वविधिपक्षेतोऽ मकरन्दः / समास एवेति / यद्यपि न घटः पट इत्यादौ व्यासेऽपि पर्युदासवृत्या तदितरपरत्वमस्त्येव, तथापिशब्दप्रकाशोक्तमनुसन्धेयम्। यागोमदिष्टसाधनमित्याद्यनुमानंशब्दप्रकाशे विपश्चितमनुसन्धेयम्। टिप्पणी। . विधिरित्यादि। नन्वेवमिष्टसाधनताज्ञानात् यागादौ कथं प्रवृत्तिरत आह अनुमेयेति / इष्टेति / द्विष्टसाधनत्वमप्येतदुपलक्षयति न कलशं भक्षयेदित्यादि निषधेवाक्यात् कलजभक्षणे आप्ताभिप्रायविषयत्वभावावगमे द्विष्टसाधनत्वस्यानुमानात् /

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610