Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 585
________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ 15 कारिकाव्यख्यायो / ' ___ लौकिक एव वाक्ये अयं प्रकारः कदाचिबुद्धिमधिरोहति न तु वैदिकेषु, तेषु पुरुषस्य निरस्तत्वात् इति चेत् / न / निरासहेतोरभावात् / तदस्तित्वेऽपि प्रमाणं नास्तीति चेत् / मा भूदन्यत् , विधिरेव तावद्गर्भ इव पुंयोगे प्रमाणं श्रुतिकुमायाः किमत्र क्रियताम्। लिङो वा लौकिकार्थातिक्रमे य एव लौकिकास्त एव चैदिकास्तएव चैषामा इति विप्लवेत / तथाच जबगडदशादिवदनर्थकत्वप्रसङ्ग इति भव सुस्थः। स्यादेतत् / तथापि वक्तृणामुपाध्यायानामेवाभिप्रायो वेदे विधिरस्तु कृतं स्वतन्त्रेण वक्ता परमेश्वरेणेति चेत् / न, तेषामनुवक्तृतयाऽभ्यासाभिप्रायमात्रेण प्रवृत्तेः शुकादिवत् तथाविधाभिप्रायाभावोत् / भावे वा न राजशासनानुवादिनो:भिप्राय आशा, किं नाम राज्ञ एवेति लौकिकोऽनुभवः // 15 // श्रुतेः खल्वपि कृत्ल एव हि वेदोऽयं परमेश्वरगोचरः। स्वार्थद्वारैव तात्पर्य तस्य स्वर्गादिवद्विधौ // 16 // प्रकाशः। टसाधनम् / न कलशं भक्षयेदित्यस्य कलजभक्षणं मम बलवदनिष्टसाधनं मदिष्टसाधनत्वे सत्यपि मदाप्तेन मत्प्रयत्नविषयतयाऽनिष्यमाणत्वात् / यथा मत्पित्रा मत्प्रयत्नविषयतयाऽनिष्यमाणं मधुविषसम्पृक्तान्नभोजनं ममानिष्टसाधनम् / लिङादीनां साक्षात् प्रवर्तकज्ञानजनकत्वे बाधकामावान्न परम्पराजनकत्वमिति न वाच्यम् / अनन्यलभ्यस्य शब्दार्थत्त्वनियमे कर्नादेरिवान्यलभ्यत्वस्य हेतुत्वादित्यादेश्व बाघकत्वात् / त्वयाऽपि स्वकृतिसाध्येष्टसाधनतामन्तराऽनुमापयता शब्दस्य साक्षात् प्रवर्तकत्वानङ्गीकारा. च्चेति भावः। विधिरेवेति / नन्वेवमन्योन्याश्रयः, न वा लाघवं तात्पर्यगौरवात् , ईश्वरायनन्तकल्पनापत्तेश्च / मैवम् / लोके आप्ताभिप्राये लिङः शक्तिप्रहाद्वेदे परिशेवादीश्वराभिप्राये पर्यवसानात् / न तु तत्रैव शक्तिः / यथा तवैव कार्यशक्तस्व लिङादेरपूर्वे पर्यवसानम् / फलमुखञ्च गौरवं न दोषाय / शक्तिप्रहकाले सिद्ध्यसिद्धिपराहतत्वात् , ईश्वरे मानान्तरोपदर्शनाचेति भावः / ___एतदेवाभिप्रेत्याह य एवेति / लोकदृष्टा एव पदार्था वेदे प्रत्यभिज्ञायमानाः कथमन्य इत्यर्थः / अनर्थकत्वेति। गृहीतसङ्गतेलौकिकपदादन्यत्वेनागृहीतसङ्गतित्वादित्यर्थः। तेषामिति / उपाध्यायवंशानामतोन्द्रियार्थज्ञानाभावात्तत्रेच्छा न सम्भवतीति शुकादीनामिव तावत्पदज्ञानात् विवक्षातश्चोच्चा रयितृत्त्वमात्रमित्यर्थः / स्वार्थद्वारैवेति / मुख्यार्थाबाधात्तत्रैव श्रुतेस्तात्पर्यमिति नान्यपरत्वमित्यर्थः / प्रकाशिका। वेति भावः / हेतुत्वादित्यादेश्चेति / हेतुत्वादनुमानाचेत्यादिकारिकोक्तौ इत्यर्थः / त्वयापीति / स्वांशस्याशक्यत्वात्तद्घटितस्य प्रवर्तकज्ञानाविषयत्वादिति भावः। तात्पर्यगौरवादिति / मकरन्दः। हेतुत्वादित्यादेश्चेति / हेतुत्वादनुमानाच्चेत्यादेश्चेत्यर्थः / टिप्पणी। प्रथमश्लोकोक्तश्रुतेरित्यस्य व्याख्यान्तरमाह श्रुतेः खल्वपीति / स्वर्गादिवदिति / यन्न दुःखेन संभिन्नं नच प्रस्तमनन्तरम् / अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् // इत्याद्यर्थवादो यथा स्वर्गाद्यर्थप्रतिपादनद्वारा स्वर्गकामो यजेतेत्यादिविधिवाक्येन सहैकवाक्यतां प्रतिपद्यमानः

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610