Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 581
________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाखलौ [ 14 कारिकाव्याख्यायां अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः इत्यतो नात्मानं हन्यादिति / कुर्य्याः कुर्य्यामित्यत्र विधिविहितैव लिङ्ग नेष्टाभ्युपायतामाह, किन्तु वक्तसङ्कल्पम् न होष्टाभ्युपायो ममायमिति कुर्यामिति पदार्थ, किन्तु तत्प्रतिपत्तेरनन्तरं योऽस्य सङ्कल्पः-कुर्यामिति, स एव / सर्वत्र चान्यत्र वक्तुरेवेच्छाऽभिधीयते लिङत्यवधृतम् / तथाह्याज्ञाऽध्येषणाऽनुशासंप्रश्नप्रार्थनाऽऽशंसालिङि नान्यत् चकास्ति / / यां वक्तुरिच्छामननुविधानस्तत्क्षोभाद्विमेति, सा आशा। या तु श्रोतुः पूजासम्मानव्यञ्जिका, सा अध्येषणा। वारणाभावव्यञ्चिका अनुज्ञा। अभिधान. प्रयोजना सम्प्रश्नः। लामेच्छा प्रार्थना / शुभाशंसनमाशीरिति / न च विधिविकल्पेषु निषेध उपपद्यते। तथाहि-यदाऽभिधा विधिः, तदान हन्यात् हननभावना नाभिधीयते इति वाक्यार्थी व्याघातान्निरस्तः। यदा कालत्रयापरामृष्टा भावना, तदा नेति सम्बन्धोऽत्यन्ताभावोमित्था। यदा कार्य, तदा न हन्यात् न हननं कार्यमित्यनुभवविरुद्धम्। क्रियत एव यतः। न हननेन कार्य हननकारणकं कार्य नास्तीत्यर्थ इत्यपि नास्ति / दुःखनिवृत्तिसुखाप्त्योरन्यतरस्य प्रकाशः। कुर्य्या इति / तवेदमिष्टसाधनमतः कुर्याः, ममेदमिष्टसाधनमतः कुर्यामिति व्यवहारान्मध्यमपुरुषादौ सङ्कल्प एव लिङर्थ इत्यर्थः / अन्यत्र क्लृप्तसामर्थ्यादिति विवृणोति सर्वत्रेति / अन्तिम हेतुं व्याचष्टे न चेति / न हन्यादिति निषेधेन सह हननान्वये हननाभाव विषया भावना तदर्थः स्यात् / तत्र च विधिवैयर्थ्य, हननप्रागभावात्यन्ताभावयोरसाध्यत्वात् / हननभावना नास्तीत्यन्वयस्तु न सम्भवति, वाधात् / ततो हननविषयभावनाऽभिधाया निषेधो वाच्यः, तत्राह व्यापारादिति / अभिधाविधिवादिनां हन्यादिति पदं हननभावनाऽभिधायकमेवेति तनिषेधे व्याघात इत्यर्थः / यद्यपि भानामभिधा न सङ्केतः किन्तु शक्यनिष्ठं धर्मान्तरं, तथापि सिद्ध्यसिद्धिव्याघाताभ्यां तनिषेधो न शक्य इति भावः। यदा कालत्रयापरामृष्टा भावनेत्यत्र विधिरित्यनुषज्यते / एवमुत्तरत्र / कदाचिद्धननभावनायाः सत्त्वात्तनिषेधस्यात्यन्ताभावरूपत्वं नास्तीत्याह तदा नेतीति / कार्यताविधिपक्षे निषेधानुपपत्तिमाह यदा कार्यमिति / यद्याख्यातेन नअन्वयः, तदा हनने कृतिसाध्यत्वकृत्युहेश्यत्वयोरुभयोरपि सत्त्वानिषेधो बाधित इत्यर्थः / हननस्य कार्यमाह दुःखनिवृत्तीति / प्रकाशिका। स्त्वित्यत आह न हन्यादिति निषेधेनेति / असाध्यत्वादिति / तथा च न तत्र विषयतया भावनान्वय इति भावः / अभिधाविधिवादिनामिति / हननभावनया समं वाच्यवाचकभावलक्षणो लिङ्सम्बन्धोऽभिधा, तनिषेधश्चाशक्यः, तथा सति तद्बोधानुपपत्तेरिति भावः / यद्यपीति / तथा च न व्याघातः, वाच्यवाचकभावलक्षणाभिधानपक्ष एव तत्सम्भवादिति भावः। शक्यनिष्ठं धर्मान्तरमिति / यद्यपि भट्टानां शब्दनिष्टा भावना न शक्यनिष्ठा, तथापि तथासति सिद्धसाधन मकरन्दः। यद्यपीति। तथा च नोक्तव्याघातः, वाच्यवाचकभावसम्बन्धात्मकाभिधापक्ष एव तत्सम्भवादिति भावः।

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610