Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________ 561 पंचमस्तवके] ईश्वरसाधनम् / तत्र विषयो धातुना भावनाऽऽख्यातमात्रेण, शेषन्तु तविशेषेण लिङा इत्येवमिष्टाभ्युपायतायामधिगतायामन्वयबलात् तद्विषयस्येष्टसाधनत्वावगतिरिति कर्त्तव्यतैकार्थसमवायिनोष्टाभ्युपायता लिङः प्रवृत्तिनिमित्तमित्युक्तम् / प्रकाशः। नत्वात्तथैवेच्छा, तथा कृतिसाध्यत्वेन पाकस्येष्टसाधनत्वात् तथैवेच्छासत्त्वात् / अन्यथा तत्तदुपायसाध्यत्वेनेच्छा तत्तदुपायसाध्यत्वप्रकारकज्ञानात् स्यादित्यनन्तकारणकल्पनापत्तिः / मम तूपायेच्छायामिष्टसाधनत्वज्ञानमेव हेतुः / अत एवैकप्रत्ययाभिवेयत्वप्रत्यासत्तेरन्तरजतया विधिप्रत्ययाभिधेयेष्टसाधनत्वस्य कृतावेवान्वयो न प्रकृत्यर्थे, तथैव चिकीर्षाहेतुज्ञानजनकत्वात् / प्रकृत्यर्थस्य च कृतौ विधेयत्वेनान्वयः / उच्यते-पाकस्य वह्निसाध्यत्वेन कृतिसाध्यत्वेन वा नेष्टसाधनत्वं 'गौरवात् , किन्तु पाकत्वेन, स च कृति विना नेत्यन्यदेतत् / कथं तर्हि वह्निना साधयामीतीच्छा। इष्टसाधनत्वेन ज्ञाते यत्र यत्साध्यत्वं ज्ञायते, तत्र तत्साध्यत्वेनेच्छासत्त्वात् / यथा हीष्टसाधनत्वेन ज्ञाते वह्निसाध्यत्वज्ञानाद्वह्निना पाकं साधयामीतीच्छा, तथा कृतिसाध्यत्वेन ज्ञाते पाके इष्टसाधनत्वज्ञानात् कृत्या साधयामीतिच्छा। तथा चेष्टसाधनत्वेन कृतिसाध्यत्वेन च ज्ञाते कृतिसाध्यत्वप्रकारिकेच्छा न त्विष्टसाधनताज्ञानमात्रादिति कृतिसाध्येष्टसाधनता विधिः / नित्ये च स्नानादौ यथेष्टसाधनताज्ञाने सत्यपि न नित्यताक्षतिः, तथा निपुणतरमुपपादितं द्वितीयाध्यायप्रकाशे इति संक्षेपः। तत्रेति / पचतीत्यादौ भावनाविषयः पाकादिर्धातुनोच्यते, भावना त्वाख्यातेनेत्यर्थः / शेषमिति / यजेतेत्यादौ लिङा भावनाविषयस्य यागादेरिष्टसाधनत्वमुच्यते इत्यर्थः / अन्वयबलादिति / प्रकृतिसमाभिव्याहारादित्यर्थः। तद्विषयस्येति / इष्टसाधनीभूतस्य भावनाविषयस्येत्यर्थः / भावनाया इष्टसाधनतया तत्कारणको यागोऽपि तथेति भावः। कर्त्तव्यतैकेति / यद्यपि पूर्वं तदर्थो भावनादिस्तद्धर्म इष्टसाधनता वेत्यनेन भावनाधर्म एवेष्टसाधनत्वं लिडर्थ इति विकल्पितम् , अधुना च भाव्यस्योच्यते इति विरोधः, तथापि तत्रादिपदेन भाव्यस्याप्यभिधानाददोषः। प्रकाशिका। इत्यर्थः / इति संक्षेप इति / इदमत्राभिसंहितम्-सुखचिकीर्षायां चिकीर्षात्वावच्छेदेन कृतिसाध्यताज्ञानं कारणत्वेन क्लुप्तम् इष्टीच्छायान्तूपायेच्छात्वावच्छेदेनेष्टसाधनताज्ञानं कारणत्वेन क्लुप्तमित्युभयावच्छेदकाधिकरणपाकचिकीर्षायामुभयं कारणमिति फलोपाधानाय प्रवृत्तस्य लिङ्गपदस्योभयशक्यत्वमित्यन्यत्र विस्तरः। एकत्रैवाख्यातत्वपुरस्कारेण भावनालिङपुरस्कारेण इष्टसाधनता वाच्या तदुभयसं. सर्गस्तु वाक्यार्थतया भासत इति मतनिराकरणाय विषयमेदमाह पचतीत्यादाविति / अन्वयविषयतानियामको र' 4 इत्यत आह प्रकृतिसमभिव्याहारादित्यर्थ इति / भावनाया इष्टसाधनतयेति / यद्यपि यागो न भावनाकारणं किन्तु विपरीतं तथापि तत्कारणमिति बहुव्रीहिः / करणपदे विषयविवक्षा वेति भावः / यागोपि तथेति / यागद्वारैव भावनाया इष्टसाधनत्वादिति __ मकरन्दः / भावनाया इष्टसाधनतयेति / यद्यपि भावनाकारणं न यागः प्रत्युत भावनैव यागजनिका, तथापि तत्कारणेत्यत्र बहुव्रीहिः, कारणपदेन विषयविवक्षा वेति भावः / / टिप्पणी। इष्टाभ्युपायता लिङः प्रवृत्तिनिमित्तमिति / प्राचार्यमण्डनमिश्राणामप्येतदेव सम्मतम् , तदुक्तं तैः पुंसां नेष्टाभ्युपायत्वास्क्रियास्वन्यः प्रवर्तकः / प्रवृत्तिहेतुं धर्म च प्रवदन्ति प्रवर्तनाम् // इति। 71 न्या० कु०
Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610